SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ ___ सटीके निघण्टुशेषे [प्रलो० ११५एतस्य लोके 'काकटींडू' इति प्रसिद्धिः // 114 // रोघ्र लोध्रः रुणद्धि व्रणं रोधः, “भी-वृधि-रुधि-" [हैमोणादिसू० 387 ] इति रः, तत्र / स्लयोरैक्याद् लोध्रः, प्रतीतोऽयम् / सिते तत्र शाबरेः स्थूलवल्कलः / उत्सादनो महारो]स्तरुः शबरपादपः // 115 // 'तत्र' इति रोधे 'सिते' श्वेते शबराणामयं वृक्षः शाबरः, "तस्येदम्" [सिद्ध० 6. 3. 160 ] इत्यण् / स्थूलो वल्कलोऽस्य स्थूलवल्कलः / उत्साद्यते उत्सादन:, उत्सादयति वा / महांश्चासौ रोधश्च महारोधः / तरति तरुः, "भृ-मृ-तृ-त्सरि-" 1 [ हैमोणादिसू० 716 ] इत्युः / शबराणां पादपः शबरपादपः। आह च रोध्रो लोध्रः शाबरकश्चिल्लकस्तिल्वकस्तरः / तिरीटः कालहीनश्च चिल्ली शबरपादपः // ] इति / श्वेतलोध्रनामानि // 115 // रक्ते तु पट्टिका तिल्वः पट्टी लाक्षाप्रसादनः / तिरीटो माजेनश्चिल्ली कानीनः क्रमुकः शशः // 116 // स्थूलपत्रो बृहत्पत्रः 'तुः' पुनरर्थे / रक्ते लोधे पट्टी एव पट्टिका, स्वार्थिकः कः / तिलति-स्निह्यत्यङ्गमनेन तिल्वः, “प्रह्वा-ऽऽह्वा." [ हैमोणादिसू० 514 ] इति वे निपात्यते / पटति 20 पट्टी, “घटा-घाटा-" [ हैमोणादिसू० 141] इति टे निपात्यते, गौरादित्वाद् डीः; पट्टोऽस्यास्तीति पट्टी / “पट्टिकारोधोऽयम्” इति क्षीरस्वामी / यदमरःक्रमुकः पट्टिकाख्यः स्यात् पट्टी लाक्षाप्रसादनः / [ का० 2 वर्ग 4 श्लो० 41] इति / 1 रस्तनुवल्कलः नि० // 2 °ध्रोऽनम्भः श° नि० // 3 शिशुः // 116 // स्थूलवल्को बृ० नि०॥
SR No.032753
Book TitleNighantu Shesh
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages414
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy