SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ 106] प्रथमो वृक्षकाण्डः / शक्यतेऽनेन शाकः, तत्र / कोलाकारं फलमस्य कोलफलः। द्वारस्य दारुरिदारुः / युनक्तीत्येवंशीलो योगी, “युज-भुज-" [सिद्ध 0 5.2.50 ] इति घिनण् / "मकुङ् मण्डने” हलिनं मङ्कते हलीमकः, पृषोदरादित्वात् साधुः / गन्धेन सारो गन्धसारः / स्थिरः सारोऽस्य स्थिरसारः / तिष्ठति स्थिरः, “शुषीषि-" [हैमोणादिसू० 416 ] इति किदिरः, स्वार्थिके के स्थिरकः / “धुत् गति-स्थैर्ययोः" ध्रुवति / ध्रुवकः, “धू-धून्दि-" [ हैमोणादिसू 0 29] इति किदकः / ध्रुवति ध्रुवः, "तुदादिविषि-" [हैमोणादिसू० 5] इति किदः // 104 // अभ्रं लेढि अभ्रंलिहः, “वहा-ऽभ्राल्लिहः"[ सिद्ध 0 5.1.123 ] इति खश् / महान्ति पत्राण्यस्य महापत्रः / बलेसारः अत्र सप्तम्यलोपः / बलं प्रददाति बलपदः, " क्वचित् " [सिद्ध 05.1.171 ] इति डः / शाकनामानि / 10 धर्मणे तु धनुर्वृक्षो गोत्रपुष्पो रुजासहः // 105 // महाबलो महावृक्षो राजाह्वो धन्वनः 'फलः। स्वादुफलो मृत्युफलः सारवृक्षः सुतेजनः // 106 // "धृङ् विध्वंसे' इति बोपदेवः, धरते कफ-पित्तादीन् धर्मणः, “चिक्कणकुक्कण-" हैमोणादिसू० 190] इत्यणे निपात्यते / धर्मणः सर्पभेदेऽपि धर्मणः पादपान्तरे / इति विश्वलोचनः / [ त्रिस्वरकाण्ड श्लो० 58 ] / तत्र / धनुराकारो धनुषो वा वृक्षो धनुर्वृक्षः / गोत्रं-भूरक्षकं पुष्पमस्य गोत्रपुष्पः / रुजां सहति रुजासहः // 105 // महद् बलमस्य महाबलः / महांश्चासौ वृक्षश्च महावृक्षः / राज्ञः आह्वा अस्य 30 राजाहः। 'धन्वनः फलः' इति धन्वशष्दात् फलमिति सम्बध्यते, तेन धन्वाकारं फलमस्य धन्वफलः / धन्वनोऽपि / यदाह-- धन्वनो गोत्रविटपी धर्मणो गोत्रपुष्पकः / ] इति / स्वादूनि फलान्यस्य स्वादुफलः / मृत्युप्रदं फलमस्य मृत्युफलः / सारश्चासौ वृक्षश्च 35 सारवृक्षः। “तिजण् निशाने” सुतरां तेजयति सुतेजनः / एतस्य लोके 'धमणउ' इति प्रसिद्धिः // 106 // .. 15
SR No.032753
Book TitleNighantu Shesh
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages414
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy