SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ 102] प्रथमो वृक्षकाण्डः। लिङ्गः ] / महाश्चासौ सालश्च महासालः। पीतवर्णः सालः पतीसालः / जीवयति जीवकः, णकः / प्रियश्चासौ सालश्च प्रियसालः, के प्रियसालकः // 100 // __शोभनो गन्धोऽस्य सुगन्धिः , “सु-पूत्युत्-सुरभेर्गन्धादिद गुणे' [ सिद्ध० 7. 3.144 ] इति समासान्त इत् / नीलो निर्यासोऽस्य नीलनिर्यासः। त्वेषन्ति पुष्यन्ति च कार्याणि अत्र तिष्यः पुष्यः, उभावपि “कुप्य-भिद्योध्य-सिध्य-तिष्य-पुष्य-" [ सिद्ध 0 / 5.1.39] इति क्यबन्तौ निपात्येते। अलकानां प्रियः अलकप्रियः। आह च बीजकस्त्वसनः काम्यः शारिः कृष्णोऽलकप्रियः / तिष्यः पुष्यः पीतसालः प्रियकः प्रियसालकः // सुगन्धिर्नीलनिर्यासस्तथा बन्धूकपुष्पकः / स स्यात् प्रियकसालश्च महासर्जश्च नामतः // 10 ] इति / बीजकनामानि / एतस्य लोके 'बीअउ' इति प्रसिद्धिः / ___ स तु द्विधा शिखिग्रीवः श्रेष्ठो गोमूत्रकोऽधमः // 1.01 // 'सः' बीजको 'द्विधा' द्विप्रकारः / शिखिग्रीव इव शिखिग्रीवः 'श्रेष्ठः' उत्तमः / गोमूत्रप्रतिकृतिर्गोमूत्रकः, “तस्य तुल्ये कः संज्ञा-प्रतिकृत्योः" [सिद्ध 07.1.108 ] 15 इति कः, अधमः // 101 // अश्वकर्णे दीर्घपत्रः कषायी सस्यसंवरः / सज्जका सर्जकः शूरः कार्शः शालो लतातरुः // 102 // अश्वस्य कर्ण इव कर्णः-पत्रं यस्य स अश्वकर्णः, तत्र, “उष्ट्रमुखादयः" [सिद्ध० : 3.1.23 ] इति समासः / दीर्घागि पत्राण्यस्य दीर्घपत्रः। कषायोऽस्त्यस्य कषायी। 30 सस्यं-फलं संवृणोति सस्यसंवरः। सज्जति-विसर्पति सज्जकः, णकः / सृजति-विसपति सर्जकः, णकः / “शूरि वीरणि विक्रान्तौ” शूरयते शूरः, अच्; "शुं गतौ” शवति वा, “चि-जि-शु-सि-" [ हैमोणादिसू० 392 ] इति रः / “कृश्यते कार्श:" इति क्षीरस्वामी / श्यति शालः, “शा-मा-श्या-शक्यम्ब्यमिभ्यो ल:' हैमोणादिसू० 462 ] इति लः, तालव्यादिरयम् / “सल गतौ” दन्त्यादिः, सल्यते साल: 25 इत्यपि / लता चासौ तरुश्च लतातरुः / यदमरः 10 गन्धकः नि० // 2 कवायः नि० // 3 कार्यशालो नि० //
SR No.032753
Book TitleNighantu Shesh
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages414
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy