________________ सटीक निघण्टुशेष [श्लो. ९९आरोग्यकारिशिम्बिरस्या आरोग्यशिम्बिः, स्वार्थिके के आरोग्यशिम्बिका / O कर्णिकारो राजवृक्षः प्रग्रहः कृतमालकः / आरोग्यशम्बी शम्याको व्याधिघातोपघातकः / आरग्वधो दीर्घफलो व्याघातश्चतुरङ्गलः / आरेवतस्तथा कर्णी कर्णीवान् स च रेवतः / / ] इति / कृतमालनामानि / लोके तु 'किरमालउ' इति प्रसिद्धिः / बीजके प्रियकः शारिगौरो बन्धूकपुष्पकः // 99 // . कृष्णसों मैदासर्जः कल्याणः पीवरोऽसनः / महासालः पीतसालो जीवकः प्रियसालकः // 10 // सुगन्धिर्नीलनिर्यासस्तिष्यः पुष्योऽलकप्रियः। " वींक प्रजन-कान्त्यसन-खादनेषु च" वेति वीयते वा वीजः “वियो जक्" [हैमोणादिसू० 227] इति जक्; "बीजाः सन्त्यस्य वा बीजः, स्वार्थिके के 15 बीजकः" इति निघण्टुः / आह च संज्ञया बीजको ज्ञेयो बीजपूरस्तथाऽसनः / [ ] इति, तत्र / काम्यत्वात् प्रियकः; प्रीणाति वा, “कीचक-पेचक-" [हैमोणादिसू० 33] इत्यकान्तो निपात्यते / शृणाति शीर्यते वा शारिः, “कृ-श-कुटि-" [ हैमोणादिसू० 20 619] इति णिदिः / गूयते गौरः, “खुर-क्षुर-" [हैमोणादिसू० 396] इति रेनिपात्यते / बन्धूकस्येव रक्तानि पुष्पाण्यस्य बन्धूकपुष्पः, स्वार्थिक के बन्धकपुष्पकः // 99 // कृष्णः स|ऽस्य कृष्णसर्जः / मदमासृजति मदासर्जः / कल्याणहेतुत्वात् कल्याणः, “कलि शब्द-संख्यानयोः" कल्यते वा "कल्याण-पर्याणादयः" [हैमोणादिसू० 193] इति णे निपात्यते / “प्यैङ् वृद्धौ” प्यायते पीवरः, पीयते रसोऽस्य 25 वा, “तीवर-धीवर-" [हैमोणादिसू० 444 ] इति वरटि निपात्यते / “असूच क्षेपे" अस्यति असनः, “य्वसि-रसि-रुचि-" [हैमोणादिसू० 269] इति अनः, [पुं-क्लीब 1. शौरि' नि० // 2 महासर्जः नि० // 3 महाशालः पीतशालो जीवकः प्रियशालकः मि० // .