SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ प्रथमो वृक्षकाण्डः। . शिरो रुजति शिरोरुक् / देवानां विटपी देवविटपी / सुष्टु मन्यते सुमनः, अच् / ग्रहान् नाशयति ग्रहनाशनः / आह च सप्तपर्णः शुक्तिपर्णश्छत्रपर्णः सुपर्णकः / सप्तच्छदो गुच्छपुष्पस्तथा शाल्मलिपर्णकः // ___] इति / पुनराहुः सप्तपर्णो बृहत्त्वक च सप्ताह्वो मुष्कपुष्पकः / सप्तच्छदः सप्तपत्रो युग्मपत्रोऽबहुच्छदः // [ ] इति / सप्तपर्णनामानि / लोके तु 'सोतवनउ' इति प्रसिद्धिः / आरग्वधे कृतमालः कर्णिकारः सुपर्णकः // 17 // पीतपुष्पो दीर्घफलः शैम्याकश्चतुरङ्गलः। व्याधिहाऽऽरेवतश्शूली प्रग्रहो राजपादपः॥९८॥ आरोग्यशिम्बिका कर्णी स्वर्णशेफालिकेत्यपि / आ-समन्ताद् रङ्गति-शङ्कते अस्माद् आरग्वधः, “आरगेर्वधः” [हैमोणा- 15 दिसू० 254 ] इति वधः प्रत्ययः; आरञ्जयन्ति आरजः-मलाः तेषां वधोऽत्रेति वा; “आसमन्ताद् रुजां वधोऽत्र" इति क्षीरस्वामी, तत्र / कृतम्-अतीसारं मलते-धारयति कृतमालः; कृता मालाऽस्येति वा / उत्तम्भित इव सकर्णिकत्वात् कर्णिकामियर्ति कर्णिकारः। शोभनानि पर्णान्यस्य सुपर्णः, के सुपर्णकः // 9 // पीतानि पुष्पाण्यस्य पीतपुष्पः। दीर्घ फलमस्य दीर्घफलः। शमी-शम्बिमकति 20 शम्याकः; शाम्यत्यनेनेति वा, “मवाक-श्यामाक-" [हैमोणादिसू० 37] इत्याके निपात्यते / चतस्रः अङ्गुलयोऽस्य चतुरङ्गुलः, "बहुव्रीहे: काष्ठे टः" [ सिद्ध 0 7.3. 125] इति टः समासान्तः / व्याधिं हतवान् व्याधिहा, नान्तः, “किप्" [ सिद्ध 0 5.1.148] इति क्विप् / आरेवत्यां भवः आरेवतः, "भवे" [सिद्ध०६.३.१२३] इत्यण् ।आरेवन्ते-यान्ति ज्वरा अनेनेति वा, "ह-पृ-भू-मृ-शी-" [ हैमोणादिसू० 207] 25 इत्यादि बहुवचनादतः / चूला विद्यते अस्य चूली। प्रगृह्यतेऽसौ अनेन वा प्रग्रहः / राजा चासौ पादपश्च राजपादपः // 98 // 1 “सादडिउ सत्तालू" इति पु 2 टिप्पणी // 2 सुवर्णकः नि० // 3 शम्पाक deg नि० // 4 तः स्थूलः प्र० नि०॥
SR No.032753
Book TitleNighantu Shesh
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages414
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy