SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ सटीके निघण्टुशेषे [ श्लो० ९५नित्यं भद्रमस्याः नित्यभद्रा / महती चासौ भद्रा च महाभद्रा / काशतेदीप्यते काश्मयः; कृश्यति--तनूकरोति वा, “शिक्या-ऽऽस्या-ऽऽढ्य-" [हैमोणादिसू० 364] इति ये निपात्यते / मधु विद्यते पर्णेष्वस्याः मधुमती / आह च काश्मयः काश्मरी 'हीरा कश्मरी मधुपर्ण्यपि / श्रीपर्णी सर्वतोभद्रा गम्भारी कृष्णवृन्तिका // ] इति / श्रीपर्णीनामानि / लोके 'सिवनी' इति प्रसिद्धिः / सप्तच्छदे शुक्तिपर्णो गुच्छपुष्पः सुपर्णकः // 15 // स्थूलपर्णो दीर्घवृक्षः शारदी विषमच्छदः / मदगन्धिर्विशालत्वग् गजद्विट शाल्मलीदलः // 16 // शिरोरुंग देवविटपी सुमनो ग्रहनाशनः / सप्त च्छदान्यस्य सप्तच्छदः, तत्र / शुक्त्याकाराणि पर्णान्यस्य शुक्तिपर्णः / गुच्छ इव पुष्पाण्यस्य गुच्छपुष्पः / शोभनानि पर्णान्यस्य सुपर्णः, स्वार्थिके के सुपर्णकः // 95 // 15 स्थूलानि पर्णान्यस्य स्थूलपर्णः / दीर्घश्चासौ वृक्षश्च दीर्घवृक्षः / शरदिऋतुविशेषे भवा शारदी, "भवे" [ सिद्ध 0 6.3.123 ] इत्यण् / यद् मङ्खः त्रिष्वधृष्टे नवे शुद्धे शारदोऽपि शरद्भवे / अस्त्री संवत्सरे सप्तपणे च शारदी पुनः // लाङ्गली 20 इति स्त्रियामाह / अमरस्तु सप्तपर्णो विशालत्वक् शारदो विषमच्छदः / - [ का० 2 वर्ग 4 श्लो० 23 ] इति पुंस्याह / विषमाणि च्छदान्यस्य विषमच्छदः / मदस्येव गन्धोऽस्य मदगन्धिः, पृषोदरादित्वादित्वम् / विशाला त्वगस्य विशालत्वक् / गजं द्वेष्टि गज25 द्विट् / शाल्मल्या इव दलान्यस्य शाल्मलीदलः // 16 // 1 वीरा पु 2 // 2 गन्धपुष्पः सवर्णकः नि० // 3 दीपवृक्षः शारदो विष नि० // 4 रुर्गेहविटपः नि० //
SR No.032753
Book TitleNighantu Shesh
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages414
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy