________________ 95 ] . प्रथमो वृक्षकाण्डः / धुनोति धवः, अच्, तत्र / भारमुद्वहति भारोद्वहः / गौरः श्वेतवर्णत्वात् ; गूयते वा, “खुर-क्षुर-" [ हैमोणादिसू० 396 ] इति रे निपात्यते / शकटस्य आख्याऽस्य शकटाख्यः / अत एव धुरं धारयति धुरन्धरः, “धारेर्धर्च" [ सिद्ध० 5. 1. 113] इति खः प्रत्ययो धर् इत्ययमादेशश्च // 92 // कुलमवति कुलावः / नन्दो जातोऽस्येति नन्दितः, तारकादित्वादितः / / श्वेतः कालश्चायं 'द्विधा' द्विप्रकारः / आह चधवो नन्दितरुौरः शकटाख्यो धुरन्धरः / ] इति / एतस्य लोके 'धव' इति प्रसिद्धिः / श्रीपयां काश्मरी कृष्णवृन्तिका मधुपर्णिका // 93 // 10 गंम्भारी सर्वतोभद्रा कैजला भद्रपर्णिका। विहारी कुमुदा हीरा महाकुम्भी च कश्मरी // 14 // नित्यभद्रा महाभद्रा काश्मर्यो मधुमत्यपि / श्रीयुक्तानि पर्णान्यस्याः श्रीपर्णी, “पाक-कर्ण-पर्ण-वालान्तात्" [सिद्ध 02. 4.55 ] इति ङीः, तस्याम् / “काशृङ् दीप्तौ” तालव्यान्तः, काशते काश्मरी, कृश्यति- 15 तनूकरोति वा, “जठर-” [हैमोणादिसू० 403] इत्यरे निपात्यते / कृष्णं वृन्तमस्याः कृष्णन्तिका / मधूनि-मृष्टानि पर्णान्यस्याः मधुपर्णी, “पाक-कर्ण-पर्ण-वालान्तात्" [सिद्ध० 2.4.55] इति ङीः, स्वार्थिके के मधुपर्णिका // 93 // “गमेः-चरत्वाद् भारोऽस्य गम्भारी" इति क्षीरस्वामी। सर्वतो भद्राण्यस्याः सर्वतोभद्रा / कज्जला श्यामवृन्तत्वात् / भ्रद्राणि पर्णान्यस्याः भद्रपर्णी, स्वार्थिके के 30 भद्रपणिका। विहरत्यवश्यं विहारी, “णिन् चावश्यका-' [सिद्ध 0 5.4.36] इति णिन् / कौ पृथिव्यां मोदते कुमुदा, मूलविभुजादित्वात् कः / “हिनोति हीरा, “खुर-क्षुर-" [ हैमोगादिसू० 396] इति र निपात्यते / महाकुम्भीव महाकुम्भी। कशति-दीप्यते कश्मरी, “जठर-" [ हैमोणादिसू० 403 ] इत्यरे निपात्यते // 94 // . 1. “कं-जलं बिभर्ति 'डुभृञ् धारण-पोषणयोः' 'कर्मण्यण' [पा०३. 2. 1] पृषोदरादित्वाद् गत्वम् / कम्भारी इत्यपि।" इत्यमरकोशव्याख्यासुधाटीकायाम् / / 2. कटफला नि०॥३. विहीरा कुमुदा हारी महा नि०॥ 4 °दा वीरा पु 2 / पु 2 आदर्श एतत्पाठानुसारिण्येव व्याख्या वर्तते / दृश्यतां टिप्पणी 6 // 5 मधुपयपि नि० // 6 “विशेषेण ईरयति वोरयते वा वीरा; अजति-क्षिपति वा "ऋज्यजि." [ हैमोगादिसू० 388 ] इति किति रे 'वो'भावः।" इति पु 2 आदर्श व्याख्या / /