SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ सटीके निघण्टुशेषे [प्रलो०९१तिनिशश्चित्रकृद् नेमिः स्यन्दनो रथसाधकः / तथाऽरण्यो रथद्रुश्चाप्यतिमुक्तः ] इति / तिनिशनामानि // 9 // पलाशे किंशुकः पर्णः खरपर्णस्त्रिपत्रकः / त्रिवृन्तास्यो रक्तपुष्पः क्षीरश्रेष्ठः समिद्धरः // 9 // बीजस्नेहो वातपोषो यज्ञियो ब्रह्मपादपः / प्रशस्तानि पलाशानि सन्त्यस्य पलाशः, अभ्रादित्वादः, पलं-मांसमश्नुते रक्तपुष्पत्वादिति वा, तत्र / किञ्चित् शुकः-नीलः किंशुकः / पर्णानि सन्त्यस्य पर्णः, 10 अभ्रादित्वादः / खराणि पर्णान्यस्य खरपर्णः / [ त्रीणि पत्राण्यस्य त्रिपत्रकः ] / त्रीणि वृन्तानि आस्यमिवास्येति त्रिन्तास्यः। रक्तानि पुष्पाण्यस्य रक्तपुष्पः। क्षी रेण श्रेष्ठः क्षीरश्रेष्ठः / समिधं धरति समिद्वरः // 91 // ___- बीजेषु स्नेहोऽस्य वीजस्नेहः / वातं पोषयति वातपोषः, अच् / यज्ञमर्हति यज्ञियः, “यज्ञादियः" [ सिद्ध 06.4.179] इति इयः / ब्रह्मणः पादपो ब्रह्मपादपः। - 15 आह च किंशुको वीतशोकश्च रक्तपुष्पोऽथ याज्ञिकः / क्षीरश्रेष्ठः पलाशश्च बीजस्नेहः समिद्धरः // त्रिवृन्तास्यो ब्रह्मवृक्षः खरपर्णस्त्रिपत्रकः / / [ ] इति 20. चन्द्रोऽपि पलाशः किंशुकः [पर्णः] यज्ञियो रक्तपुष्पकः / क्षीरश्रेष्ठो वातपोषो ब्रह्मवृक्षः समिद्धरः // ] इति / पलाशनामानि / धवे भारोबहो गौरः शंकटाख्यो धुरन्धरः // 12 // कुलावो नन्दितश्चापि, सितः कृष्णश्च स द्विधा / 1 त्रिवृन्ताख्यो रक्तपुष्पो बीजस्नेहः समिद्धरः // 91 / / क्षारश्रेष्ठो वातपोथो यज्ञिको ब्रह्म नि० // 2 सकटाक्षो धुर * नि० // 25
SR No.032753
Book TitleNighantu Shesh
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages414
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy