________________ प्रथमो वृक्षकाण्डः / शिग्रुः स्याच्छ्वेतमरिचं मुखभञोऽतितीक्ष्णकः / शोभाञ्जनस्तीक्ष्णगन्धः सुतीक्ष्णो ध( घ)नपल्लवः // शिर्हरितशाकोऽन्यो मतो मूलकपल्लवः / घनच्छदस्तीक्ष्णगन्धिः] सुभङ्गी दशनक्षमः / / तृतीयो मधुशिग्रुः स्यात् [ ] इति / शिग्रुनामानि / लोके 'शिरघू' इति प्रसिद्धिः // 88 // श्वेतेऽत्र श्वेतमरिचः 'अत्र' श्वेते शिग्रौ श्वेतं मरिचमस्य श्वेतमरिचः। रक्ते तु मधुशिग्रुकः। 'तुः' पुनरर्थे / रक्ते शिग्रौ मधुप्रधानः शिग्रुः मधुशिग्रुः, स्वार्थिक के मधु- 10 शिग्रुकः। तिनिशे चित्रकृद् नेमिर्वञ्जुलो रथसाधकः // 89 // दीर्घवृक्षश्चक्रकारो रथनामाऽतिमुक्तकः / अश्मगर्भः सर्वसारः क्रमसन्धारणोऽपि च // 9 // तनोति रथादीन् तिनिशः, “तिनिश-" हैमोणादिसू० 537 ] इति इशे निपात्यते; 15 "अतिक्रान्तो निशाः तिनिशः, चिरकालिकत्वात्” इति क्षीरस्वामी, तत्र / चित्रं करोति चित्रकृत, लघुत्वेऽपि दाढर्य-दैर्ध्याभ्यामाश्चर्यकारी / नीयते नेमिः, "नी-सा-वृ-यु-शबलि-दलिभ्यो मिः" [हैमोणादिसू० 687] इति मिः / “रथचक्रान्ते नमति नेमिः" इति क्षीरस्वामी / वन्यते-अर्थ्यते वजुलः, “कुमुल-तुमुल-निचुल-" हैमोणादिसू० 487] इत्युले निपात्यते / रथं साधयति रथसाधकः // 89 // दीर्घश्चासौ वृक्षश्च दीर्घवृक्षः / चक्रं करोति चक्रकारः, कर्मण्यण् / रथस्य नामाऽस्य रथनामा / अतिमुच्यते स्म अतिमुक्तः, विस्तीर्णत्वात्, [ स्वार्थिके के अतिमुक्तकः ] / अश्म गर्भेऽस्य अश्मगर्भः। सर्वश्चासौ सारश्च सर्वसारः / क्रम सन्धारयति क्रमसन्धारणः / आह च .1 "अत्र' शिग्रौ श्वेते श्वेतानि मरिचतुल्यानि फलान्यस्य श्वेतमरिचः” इति स्वोपज्ञाभिधानचिन्तामणिवृत्तौ // 2 तिनिशे रथकृन्नेमि नि०॥ 3 °श्च कवरो नि०॥ 20