SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ 50 सटीके निघण्टुशेषे [श्लो० ८७"शोग वर्णे” इत्यस्माद् णकः / जायतेऽस्यां जम्बूः 'कमि-जनिभ्यां बूः" [हैमोणादिसू० 847] इति जम्बूः, स्त्रीलिङ्गः / शुकस्य नाशोऽस्मात् शुकनाशः। कटं बिभर्ति कटम्भरः, "भृ-वृ-जि-" [सिद्ध 0 5.1.112] इत्यादिना खः / मयूरस्य जोव जङ्घाऽस्य मयूरजङ्घः / कटून्यङ्गान्यस्य रौक्ष्यात् कट्वङ्गः / सल्लिः सौत्रो गत्यर्थः, सल्लति 5 सल्लकः, “द-कृ-न-"[ हैमोणादिसू० 27] इत्यकः / प्रियो जीवोऽस्य प्रियजीवः, स्वार्थिक के प्रियजीवकः // 86 // मण्डूक इव पर्णान्यस्य मण्डूकपर्णः। पत्रेषु ऊर्णाऽस्य पत्रोर्णः / गोपानां वृक्षो गोपवृक्षः / मुनीनां द्रुमः मुनिद्रुमः / आह च स्योनाकः शुकनाशश्च कट्वङ्गोऽथ कटम्भरः / मयूरजङ्घोऽरलुकः प्रियजीवः कुटन्नटः // स प्रोक्तः पृथुशिम्बिश्च टुण्टुको दीर्घवृन्तकः / भालूकः सल्लकः फल्गुवृन्तको जम्बुको नटः // [ ] इति / एतस्य लोके 'अरलू' इति प्रसिद्धिः / एतद्भेदस्य 'टींटू' इति प्रसिद्धिः / शिग्रौ शोभाञ्जनस्तीक्ष्णगर्भो मूलकपल्लवः // 87 // विद्रध्यरातिकोऽक्षीवो मुखभञ्जः सुभञ्जनः / दंशोऽक्षीबः सुभङ्गी च मोचको मधुगृञ्जनः // 88 // "शिंगट् निशातने" शिनोति तैदण्यात् शिः , “शिग्रु-गेरु-नमेर्वादयः" 20 जनः; सुष्टु भनक्ति मुखमिति वा, पृषोदरादित्वात् / तीक्ष्णो गर्भोऽस्य तीक्ष्णगर्भः। मूलक इव पल्लवा अस्य मूलकपल्लवः // 87 // विद्रधेररातिर्विद्रध्यरातिः स्वार्थिक के विद्रध्यरातिकः। “ष्ठिवू क्षिवू निरसने" न क्षीवन्ते अनेन अदृप्यत्वाद् अक्षीवः। मुखं भनक्ति मुखभजनः / शोभनं भञ्जन मस्य सुभजनः। दशति दंशः, अच् / "क्षीबृङ् मदे" न क्षीबते अक्षीवः / शोभनो 25 भङ्गोऽस्त्यस्य सुभङ्गी / मुञ्चति गन्धं मोचकः, णकः प्रत्ययः / मधुप्रधानो गृञ्जनो मधुगृजनः / आहुश्च १°गन्धो मू° नि० // 2 विद्रध्यरातिः काक्षीवो मुख° नि० // 3 दृशोऽक्षीवः सुरङ्गी च नि०॥
SR No.032753
Book TitleNighantu Shesh
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages414
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy