________________ प्रथमो वृक्षकाण्डः। [45 विकङ्कते--प्रसरति विकङ्कतः ककिर्गत्यर्थः, 'सीमन्त-हेमन्त-" हैमोणादिसू० 222] इत्यन्ते निपात्यते, तत्र / "सुवा-सुक्. सा हि वैकङ्कती आम्नाता, तस्या वृक्षः ग्रन्थीन् लाति वा, "क्वचित्" [सिद्ध० 5. 1. 171] इति डः / स्वादवःमृष्टाः कण्टका अस्य स्वादुकण्टकः / कङ्कते-प्रसरति किङ्कणिः "कङ्केरिच्चास्य / वा" हैमोणादिसू० 639] इति अणिः प्रत्ययः, धातोरकारस्य च विकल्पेन इकारः / काकपादाविव पादोऽस्य काकपादः। व्याघ्रपादाविव पादोऽस्य व्याघ्रपात्, "उष्ट्रमुखादयः” [सिद्ध 0 3.1.23] इति समासः / गोपानां कण्टको गोपकण्टकः / आह च विकङ्कतः पृथुफलो ग्रन्थिलः स्वादुकण्टकः / गोपकण्टः काकपादो व्याघ्रपादोऽथ किङ्कणी // ] इति / विकङ्कतनामानि / लोके 'कांक' इति प्रसिद्धिः // 7 // बिल्वे महाफलः श्रयाह्नः शलाटुः पूतिमारुतः / महाकच्छः [च] शाण्डिल्यः शैलूषो नीलमल्लिका // 79 // 15 श्रीवासः श्रीफलो हृद्यगन्धो मालूर-कर्कटौ। बिलति–भिनत्ति बिल्वः, “निघृषी-' हैमोणादिसू० 511] इति किद् वः, तत्र / महान्ति फलान्यस्य महाफलः / श्रिया आह्वा अस्य याहः / “शल गतौ” शलति शलाटुः, “शलेराटुः" [हैमोणादिसू० 763] इत्याहुः प्रत्ययः / पूतिर्मारुतोऽस्य पूतिमारुतः / महांश्चासौ कच्छश्च महाकच्छः / शण्डिलस्यापत्यं शाण्डिल्य: 20 गर्गादित्वाद् यञ्, '' शाण्डिल्यपौत्रः शिल्लूषजः " इत्यागमात् ; शाण्डिल्य इव वा, ब्राह्मणमान्यत्वात् / शैलूष इव शैलूषः, नानारूपपरिवर्तनाद्वा / नीलमल्लिकेव नीलमल्लिका // 79 // श्रिया वासः श्रीवासः / श्रीप्रदानि फलान्यस्य श्रीफलः। हृद्यो गन्धोऽस्य हृद्यगन्धः / मलते-दधाति मलान् मालूरः, “महि-कणि-चण्यणि-" [ हैमोणादिसू० 25 1 'कांकई' इति पु 2 // 2 महाकपित्थं शाण्डिल्यः नि० //