SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ 44] सटीके निघण्टुशेषे [श्लो०७६ पारिभद्रे निम्बतरुर्मन्दारः पारिजातकः // 76 // पारि-प्राप्तपारं भद्रमस्य पारिभद्रः, तत्र / निम्बतरुः निम्बोत्थः / मन्यतेस्तूयते देवैर्मन्दारः, “अग्यङ्गि-" [हैमोणादिसू० 405] इत्यारः; [ मन्दमियर्तीति वा] / 5 पारि-निष्ठां प्राप्तं जातमस्य पारिजातकः / यदाहुःपारिभद्रे निम्बतरुर्मन्दारः पारिजातकः / [अमर० का०२ वर्ग 4 श्लो० 26] इति / तथा चनिम्बोत्थः सर्वतोभद्रः प्रभद्रः पारिभद्रकः / ] इति / पारिभद्रनामानि // 76 // करीरे स्यात् तीक्ष्णसारः शाकपुष्पो मृदूफलः / मरुजन्मी गूढपत्रो ग्रन्थिल-क्रकरावपि // 77 // किरति-क्षिपति वायुं करीरः, "क-श-पृ-पूग्-मञ्जि-" [हैमोणादिसू० 428] तीक्ष्णसारः / शाकं पुष्पाणामस्य शाकपुष्पः। मृदूनि फलानि अस्य मृदुफलः, पृषोदरादित्वाद् दीर्घः / मरौ जन्माऽस्य मरुजन्मा / गूढानि-गुप्तानि पत्राण्यस्य गृढपत्रः / ग्रन्थयः सन्त्यस्य ग्रन्थिलः, सिध्मादित्वाल्लः; ग्रन्थीन् लाति वा / 'क' इति करोति क्रकरः, तीक्ष्णत्वात् ; क्रम्यते वा, “जठर-क्रकर-' हैमोणादिसू० 20 403] इत्यरे निपात्यते / आह च करीरं गूढपत्रं च शाकपुष्पं मृदूफलम् / ग्रन्थिल तीक्ष्णसारं च क्रकरं तीक्ष्णकण्टकः // ] इति / एतस्य लोके 'कहर' इति प्रसिद्धिः // 77 // 25 विकङ्कते स्रुवावृक्षो ग्रन्थिलः स्वादुकण्टकः / किंङ्कणिः काकपादश्च व्याघ्रपाद गोपकण्टकः // 78 // १°न्मा तथा पत्रो नि० // 2 'कयर' पु 2 // 3 केकणिः नि० // 4 °पादोपक° नि० //
SR No.032753
Book TitleNighantu Shesh
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages414
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy