________________ 46] सटीके निघण्टुशेषे . [श्लो० 80428 ] इति णिदूरः / कर्किः सौत्रो गत्यर्थः, कर्कति कर्कटः, “दिव्यवि." [ हैमोणादिसू० 142 ] इत्यटः / आह च बिल्वः शलाटुः शाण्डिल्यो हृद्यगन्धः सदाफलः / शैलुषः श्रीफलः श्रूयाह्नः कर्कटः पूतिमारुतः // लक्ष्मीफलो गन्धगर्भः सत्यकर्मा वरारुहा / वातसारो हृषीकश्च कण्टकाढ्यः सिताननः // . ] इति / बिल्वनामानि / लोके 'बीली' इति प्रसिद्धिः / / हरीतक्यां जया पथ्या हैमवत्यभयाऽमृता // 8 // 10 कायस्था पूतना चेतक्यव्यथा श्रेयसी शिवा / - हरति रोगान् हरीतकी, "ह-रुहि-पिण्डिभ्य ईतकः” [ हैमोणादिसू० 79] इतीतकः, स्त्रीलिङ्गः / हरस्य भु (? भ) वने जाता हरिता च स्वभावतः / सर्वरोगांश्च हरते तेनाऽऽख्याता हरीतकी // ] इति, तस्याम् / जयति रोगान् जया / पथि साधुः पथ्या, हितेत्यर्थः, " तत्र साधौ" [ सिद्ध० 7. 1. 15 ] इति यः / हिमवत इयं हैमवती, " तस्येदम्" [सिद्ध 0 6. 3. 160 ] इत्यण् / नास्ति भयमस्या अभया / यदाह अम्लभावाज्जयेद् वातं पित्तं मधुर-तिक्ततः / 30 कर्फ रूक्ष-कषायत्वात् त्रिदोषनी ततोऽभया // [ ] इति / अत एव नास्ति मृतमस्या अस्यां वा अमृता // 80 // काये तिष्ठति-निष्फला न भवति कायस्था, " स्था-पा-स्ना-त्रः कः" [ सिद्ध 0 5. 1. 142 ] इति कः / वयःस्थेत्येके / पूतं करोति पूतना, विरेचनीत्वात् / ॐ पृतनेत्येके / " चितिण संवेदने " चेतयते स्रोतःशुद्धेः चेतकी, " कीचक-पेचक-" [ हैमोणादिसू० 33 ] इत्यके साधुः / न व्यथयति अव्यथा / अतिशयेन प्रशस्या श्रेयसी, " गुणाङ्गाद्वेष्ठेयसू” [सिद्ध 0 7. 3. 9 ] इति ईयसौ " प्रशस्यस्य श्रः" [ सिद्ध 0 7. 4 34 ] इति श्रादेशः / शेरते रोगा अनया शिवा, "शीङापो हस्वश्च वा” [ हैमोणादिसू० 506 ] इति वः दीर्घस्य हस्वश्च / आह च 15