________________ 40] सटीके निघण्टुशेषे . [श्लो०६९छदान्यस्याः पाण्डुरच्छदा / कृष्णः सारोऽस्याः कृष्णसारा / अङ्गारवर्णा अङ्गाराकृतिः / शिशपानामानि / लोके 'सीसम' इति प्रसिद्भिः / अगुरुरेन्या तु शिंशपा // 69 // 'तुः' पुनरर्थे / 'अन्या' अपरा शिंशपा न गुरुः अगुरुः, पुं-क्लीबलिङ्गः, 5 उच्यते इति शेषः / यन्महेश्वरः - अगुरुः स्याच्छिंशपायां जोङ्गके लघुनि त्रिषु / ] इति / तथा च - . शिंशपा तु महाश्यामा कृष्णसारः स्मृतोऽगुरुः / ] इति // 69 // कुशिंशपा भस्मगर्भा कपिला भस्मपिङ्गला / कुत्सिता शिंशपा कुशिंशपा / भस्म गर्भेऽस्याः भस्मगर्भा। कपिला कपिलवर्णत्वात् / “कबुङ् वर्णे" कव्यते कबते वा कपिला, “स्थण्डिल-कपिल.'' [हैमो णादिसू० 484] इति साधुः / भस्म चासौ पिङ्गला च भस्मपिङ्गला / आह च15 कुशिंशपाऽन्या कपिला भस्मगर्भा वसादनी / ] इति / शिंशपाविशेषोऽयम् / बदयां कुवली कोलिः कर्कन्धुः फलितच्छदा // 70 // राष्ट्रवृद्धिकरी कोली सौवीरी वज्रशल्यिका / घुट्टा घोण्टा गोपघोण्टा व्याघ्र-गृध्रनखीत्यपि // 7 // "बद स्थैर्य' बदति बदरी, “ऋच्छि-चटि-''[ हैमोणादिसू० 397] इत्यरः, तस्याम् कौति कुवली, "कोर्वा' [ हैमोणादिसू० 469 ] इति किदलः; कौ-भूमौ वलतीति वा, 1deg रल्पा तु शिशिपा नि० // 2 deg शिशिपा नि० // 3 कुवलिः नि // . 4 फेनिलच्छदा नि० // 5. वज्रशिल्पिका नि०॥ 6 घुटा घोण्टा कुहा घोट्टा नि० // 20