SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ 73] प्रथमो वृक्षकाण्डः। [41 त्रिलिङ्गः / कोलति-संस्त्यायति कोलिः, “किलि-पिलि-" [हैमोणादिसू० 608] इत्यादिशब्दाद् इः प्रत्ययः; स्त्रीलिङ्गः / कर्कस्य अन्धुरिव कर्कन्धुः; कर्कः लोहितोऽन्धुरिति वा कर्कन्धुः पुं-स्त्रीलिङ्गः / फलितं छदमस्याः फलितच्छदा // 70 // ___ राष्ट्रस्य वृद्धिकरी राष्ट्रवृद्धिकरी / इकारान्तात् कोलिशब्दाद् ड्यां कोली / सुवीरदेशे भवा सौवीरी, " भवे " [ सिद्ध० 6,3.123 ] इत्यण्, “अण-जे-ये-" 5 [सिद्ध 02.4.20] इति ङीः / वज्र इव शल्यं–कण्टकमस्या वज्रशल्यिका / घुणति-वृत्तत्वाद् भ्रमति घुट्टा घोण्टा च, उभावपि “घटा-घाटा-घण्टादयः" [ हैमोणादिसू० 141 ] इति टे निपात्येते / गोपानां घोण्टा गोपघोण्टा / ' व्याघ्र-गृध्रनखी' इति व्याघ्र-गृध्रशब्दाभ्यां परो नखशब्दः सम्बध्यते, तेन व्याघ्रस्येव नखा अस्याः व्याघ्रनखी / एवं गृध्रनखी, कण्टकानां प्राचुर्यात् / 10 यदुवाच चन्द्रः - बदरी गोपघण्टा च घुट्टा घोण्टा च कोकिला / स्निग्धच्छदा कोलफला राष्ट्रवृद्धिकरी तथा // ] इति / इन्दुरप्याह बदरी स्निग्धपत्रा च राष्ट्रवृद्धिकरी तथा / फलं तस्याः स्मृतं कोलं कोकिलं फेनिलं कुहम् // लोले सूक्ष्मफलं तत्तु ज्ञेयं कर्कन्धु कण्टुकम् / स्वादुः कन्दुः सिञ्चतिका तच्च कोलफलं मतम् // [ ] इति / 30 एतस्या लोके 'बोरि' इति प्रसिद्धिः // 71 // शम्यां सक्तुफला लक्ष्मीः शिम्बा तुङ्गाऽग्निपादपः / अजप्रिया भस्मकाष्ठा शङ्करः शिवकीलिका // 72 // शिवालोमाऽऽयतफला लोम-पामविनाशिनी / मङ्गल्या शुचिपत्रा च 1 शिवा नि० // 2 शिवलोमा नि० // 15 15 . का
SR No.032753
Book TitleNighantu Shesh
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages414
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy