SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ 69] प्रथमो वृक्षकाण्डः / णादिसू० 155] इत्युटे निपात्यते; कुक्कुटीव वा / पूरयति पूरणी / रक्तानि कुसुमान्यस्याः रक्तकुसुमा / घुणानां-जन्तुविशेषाणां वल्लभा घुणवल्लभा // 67 // कण्टकैराढ्या कण्टकाढया / नलवत् फलान्यस्याः नलफली / आह च शाल्मली रक्तपुष्पा च कुक्कुटी स्थिरजिविका / पिच्छिला तूलिनी मोचा कण्टकाढया च पूरणी // मोचनीति च [ . ] इति / शाल्मलिनामानि / लोके तु 'सीबली' इति प्रसिद्धिः // पिच्छा तु तस्य वेष्टकः / 'तस्य' शाल्मले: / पिच्छेव पिच्छा, आचामवदङ्गलिषङ्गित्वात्ः पीयते वा पिच्छा, “पी-पूङो हस्वश्च" [हैमोणादिसू० 125] इति छक् प्रत्ययो दीर्घस्य 10 हूस्वश्च / वेष्टकः निर्यासः, कथ्यते इति शेषः / आह च शाल्मली वेष्टकः पिच्छा निर्यासः स च शाल्मलः / मोचस्रावो मोचरसो मोचनिर्यासकस्तथा // ] इति / कुशाल्मलौ शाल्मलिको रोचनः कूटशाल्मलिः // 68|| 15 कुत्सितः शाल्मलिः कुशाल्मलिः, तत्र / कुत्सितः शाल्मलिः शाल्मलिकः / “शाल्मलिप्रकारः शाल्मलिकः” इत्यपरे / रोचते रोचनः / कूटः शाल्मलिः कूटशाल्मलिः, इह कूटशब्देन कुत्सितत्वं द्योत्यते, दुर्गादेहिं परसैन्यदलनार्थं सा क्षिप्यते / शाल्मलिविशेषोऽयम् // 68 // शिंशपायां महाश्यामा पिच्छिला पाण्डुरच्छदा। 20 कृष्णसाराऽङ्गारवर्णा शंस्यते शिंशपा, “शंसेः श इच्चातः” [ हैमोणादिसू० 306 ] इत्यनेन "शंसू स्तुतौ च इत्यस्मादपः प्रत्ययस्तालव्यः शकारोऽन्तादेशोऽकारस्य च इकारो भवति" तस्याम् / महती चासौ श्यामा च महाश्यामा / पिच्छा विद्यतेऽस्याः पिच्छिला, "लोमपिच्छादेः शेलम्" [सिद्ध 0 7. 2. 28] इतीलः / पाण्डुराणि 25 1 कुत्सिते शाल्मलौ प्रोक्तो रोचनः नि० // 2 शिशिपा नि० //
SR No.032753
Book TitleNighantu Shesh
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages414
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy