________________ 36] सटीके निघण्टुशेषे [ श्लो० ६२कपयोऽस्मिन् तिष्ठन्ति कपित्थः कपिप्रियत्वात् ; कपिरिव तिष्ठतीति वा, पृषोदरादित्वात् साधुः, तत्र / वानराणामावासो वानरावासः / गन्धयुक्तानि पत्राण्यस्य गन्धपत्रः / कपीना प्रियः कपिप्रियः // 60 // पुष्पाण्येव फलमस्य पुष्पफलः / दधिवदम्लमधुरं फलमस्य दधिफलः / दनि 5 तिष्ठति दधित्थः, पृषोदरादित्वात् / गृह्णातीति ग्राही, स्तम्भकारित्वात्, ग्रहादित्वाद् णिन् / मनो मनाति मन्मथः, पृषोदरादित्वात् साधुः; मथति चित्तमिति वा "क्रमि-मथिभ्यां चन्मनौ च" हैमोणादिसू 0 12] इत्यः प्रत्ययः मन् इत्यादेशश्चास्य / अक्षि स्पन्दते अस्मादिति अक्षिस्पन्दः / दन्तेषु शठः अम्लत्वादिति दन्तशठः / राजा चासौ आम्रश्च राजाम्रः। चिरेण पाकोऽस्य चिरपाकी / आह च10 कपित्थोऽथ दधित्थश्च ग्राही फलसुगन्धिकः / अक्षिस्पन्दो दधिफलश्चिरपाकी कपिप्रियः // __] इति / कपित्थनामानि / लोके तु 'कउठी' इति प्रसिद्धिः // 61 // अश्मन्तके सूक्ष्मपत्रः पाषाणान्तक इन्द्रकः / अम्लपत्रस्ताम्रपुष्पः कुशली यमलच्छदः // 62 // अश्नुते अश्मन्तम्, “सीमन्त-हेमन्त-" हैमोणादिसू० 222] इत्यन्ते निपात्यते, स्वार्थिक के अश्मन्तकम्, तत्र / सूक्ष्माणि पत्राण्यस्य सूक्ष्मपत्रः / पाषाणमन्तयति पाषाणान्तकः / इन्दति इन्द्रः, “भी-वृधि-" हैमोणादिसू० 387] इति रः, स्वार्थिके के इन्द्रकः / अम्लानि पत्राण्यस्य अम्लपत्रः / ताम्राणि रक्तत्वात् पुष्पाण्यस्य ताम्रपुष्पः / 30 कुशलमस्त्यस्य कुशली / यमलरूपं छदमस्य यमलच्छदः / आह च अश्मन्तक इन्द्रकस्तु कुशली चाऽम्लपत्रकः / 'लक्ष्णत्वग् मालुकापर्णः स्मृतो यमलपत्रकः / / ] इति / अश्मन्तकनामानि / लोके तु 'आसद्रा' इति प्रसिद्धिः // 62 // नारङ्गे नागरङ्गः स्यात् त्वक्सुगन्धो मुखप्रियः / ऐरावतो योगसारो योषिद्वक्त्राधिवासनः॥३३॥ 1 श्लक्ष्णपत्रः नि० // 2 °म्रपत्रः कु° नि० // 3 नारङ्गे स्यान्नागरङ्गस्त्वक्सु° नि० // 4 योगी तक्राधि° नि०॥ * 15