________________ 61] प्रथमो वृक्षकाण्डः। शाखाम्लो वेतसाम्लोऽम्लस्तिन्तिडीको रसाम्लकः / अम्लश्चासौ वेतसश्च अम्लवेतसः, तत्र / बिभ्यति अस्मादिति भीमः, "भियः षोऽन्तश्च वा” हैमोणादिसू० 344] इति किन्मः / भेदयति भेदनः / रक्तं पूरयति रक्तपूरकः / रुधिरं स्रावयति रुधिरस्रावकः / चक्यते-तृष्यतेऽनेन चुकम् पुं-क्लीबलिङ्गः, "चकि-रमि-" हैमोणादिसू० 393] इति रः, अकारस्य च उकारः / मांसस्य अरि-5 मांसारिः / वातिकानां प्रियो वातिकप्रियः // 58 // शाखा अम्लाऽस्य शाखाम्लः / वेतसश्चासौ अम्लश्च वेतसाम्लः। अमति अम्लः, "शा-मा-श्या-शक्यम्ब्यबिभ्यो लः" हैमोणादिसू० 462] इति लः / तिन्तिडीकशब्दः प्राग्वत् / रसोऽम्लोऽस्य रसाम्लः, स्वार्थिके के रसाम्लकः / आह च अम्लोऽम्लवेतसो भीमो रसाम्लो बिल्ववेतसः / रक्तस्रावो वेतसाम्लः शतवेधी च वेधकः // ] इति / एतस्य लोके 'आम्लवेतस' इति प्रसिद्धिः / स शहन्द्रावको हीनो बालद्रावक उत्तमः // 19 // 'सः' अम्लवेतसः शङ्खान् द्रावयति शङ्खद्रावकः हीनः / बालं द्रावयति बाल- 15 द्रावकः उत्तमः, कथ्यते इति शेषः // 59 // तावेव तु शतवेधि-सहस्रवेधिनी क्रमात् / 'तुः' पुनरर्थे / 'तावेव' शङ्खद्रावक-बालद्रावकावेव शतं-बहून् विध्यत्यवश्यं शतवेधी, सहस्रं विध्यत्यवश्यं सहस्रवेधी, उभयत्र “णिन् चाऽऽवश्यका-" [सिद्ध 0 5. 4. 36] इति णिन् / 'क्रमाद्' अनुक्रमेण / आह च---- 20 सहस्रवेधी चुक्रोऽम्लवेतसः शतवेध्यपि / / [अमर० का० 2 वर्ग 4 श्लोक 141 ] इति / कपित्थे वानरावासो गन्धपत्रः कपिप्रियः // 60 // पुष्पफलो दधिफलो दधित्थ-ग्राहि-मन्मथाः / / अक्षिस्पन्दो दन्तशठो राजाम्रश्चिरपाक्यपि // 61 // 25 1 “अम्लवेतसवृक्षनिर्यासोऽम्लवेतसः / " इति अभिधानचिन्तामणिस्वोपज्ञवृत्तौ // 2 लोहद्रावक नि० //