SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ 34] सटीके निघण्टुशेषे [ श्लो० ५७णादिसू० 462 ] इति लः; अम्लत्वाद्वा अम्ला / शुक्तम्-अम्लविशेषः तान्तोऽयम् , स विद्यतेऽस्याः शुक्तिका, “अतोऽनेकस्वरात्'' [ सिद्ध 0 7.2.6] इति कः। अम्लैव अम्लिका / अम्ब्ला एव अम्ब्लिका / " चकि तृप्ति-प्रतीघातयोः"चकते अनया चुक्रा, "चकि-रमि-विकसेरुच्चास्य" [हैमोणादिसू० 393 ] इति रः प्रत्ययोऽकारस्य चोकारः; 5 चुक्रः-अम्लो रसः, स विद्यतेऽस्या वा, अभ्रादित्वादः। चिञ्चिमायते अम्लत्वान्मुखं ययाऽसौ चिश्चा, पृषोदरादित्वात् साधुः / “तिम तीम ष्टिम ष्टीमच् आर्द्रभावे” तिम्यति तिन्तिडीका, “सृणीका-ऽस्तीक-प्रतीक-" [ हैमोणादिसू० 50] इतीके निपातनात् तिमेर्धातोस्तिड् अन्तो भवति / केचित् पूर्वस्य इत्वं नेच्छन्ति तन्मते तिन्तडीका / तिम्यति तिन्तिडा, "विहड-कहोड-" [ हैमोणादिसू० 172 ] इति अडे निपात्यते, 10 ऋफिडादित्वाल्लत्वे तिन्तिला। गुड इव पुष्पाण्यस्या गुडपुष्पिका / आह च अम्लीका चुक्रिका चुक्रा साऽम्ला शुक्ताऽथ शुक्तिका / ] इति / एतस्या लोके 'आंबिली' इति प्रसिद्धिः // 56 // 15 वृक्षाम्ले स्यादम्लवृक्षस्तिन्तिडीको महीरुहः। शाकाम्लमम्लशाकं चाम्लपूरो रक्तपूरकः // 57 // वृक्षश्चासौ अम्लश्च वृक्षाम्लः, तत्र / अम्लश्चासौ वृक्षश्च अम्लवृक्षः। तिन्तिडीकशब्दस्य साधना पूर्ववत् / मयां रोहति महीरुहः / शाकं च तद् अम्लं च शाकाम्लम् / अम्लं च तत् शाकं च अम्लशाकम् / अम्लस्य पूरो अस्य अम्ल30 पूरः / रक्तं पूरयति रक्तपूरकः / आह च वृक्षाम्लं तिन्तिडीकं च शाकाम्लं रक्तपूरकम् / अम्लवृक्षोऽम्लशाकं तदम्लपूरो महीरुहः // ] इति / वृक्षाम्लनामानि / लोके 'तिन्तिडीक' इति प्रसिद्धिः // 57 // अथाम्लवेतसे भीमो भेदनो रक्तपूरकः / रुधिरस्रावकश्चुकं मांसारिर्वातिकप्रियः // 58 / / 1 अभिधानचिन्तामणौ अमरकोशे च ‘तिन्तिडी' इति दृश्यते // 25
SR No.032753
Book TitleNighantu Shesh
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages414
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy