________________ 56] प्रथमो वृक्षकाण्डः। . [33 रोचयति रुचकः, "धू-धून्दि-रुचि-" [हैमोणादिसू० 29] इति किदकः / मध्ये केसरा अस्य मध्यकेसरः / कृमीन् हन्ति कृमिघ्नः / गन्धाः-गन्धवन्तः कुसुमा अस्य गन्धकुसुमः / केसराः सन्त्यस्य केसरी / शीधुनः पादपः शीधुपादपः। आह च फलपूरो बीजपूरः केसरी बीजपूरकः / बीजकः केसराम्लश्च मातुलुङ्गस्तु पूरकः / / ] इति / एतस्य लोके 'बीजउरउ' इति प्रसिद्धिः // 54 // ___ मातुलुङ्गयां वर्धमाना मधुरा मधुकर्कटी। - मधुवल्ली पीतेपुष्पी देवदूती महाफला // 55 // . 'मातुलुङ्गयां' बीजपूरविशेषे / वर्धते फलैर्धमाना / मधु विद्यते अस्या मधुरा, 10 " मध्वादिभ्यो रः" [सिद्ध 0 7.2.26] इति रः; माद्यत्यनया वा मधुरा, " श्वशुर-कुकुन्दुर-" हैमोणादिसू० 426] इत्युरे निपात्यते / यन्महेश्वरः मधुरा शतपुष्पायां मिश्रेया-नागरीभिदोः / मधुकर्कटिका-मेदा-मधूली-यष्टिकासु च // ] इति / 15 मधुनः कर्कटी इव मधुकर्कटी / मधुनो वल्ली मधुवल्ली / पीतानि पुष्पाण्यस्याः पीतपुष्पी, "असत्काण्ड-प्रान्त-शतैकाञ्चः पुष्पात्" [ सिद्ध० 2.4.56 ] इति ङीः / देवानां दूतीव देवदूती / महान्ति फलान्यस्या महाफला / आह च बीजपूर्णोऽपरः प्रोक्तो मधुरा मधुकर्कटी। मधुवल्ली मधुपर्णी वर्धमाना. महाफला // 20 ] इति // 55 // अम्लीकायां चुक्रिकाऽम्ला शुक्तिका चाम्लिकाऽम्ब्लिका / चुक्रा चिञ्चा तिन्तिडीका तिन्तिला गुडपुष्पिका / / 16 / / चुक्रिका इति क्षीरस्वामी / अमति अम्ला, “शा-मा-श्या-शक्यम्ब्यमिभ्यो लः' [हैमो- 35 1 पूतिपुष्पा नि० // 2 महाबला नि० // 3 अम्लिकायां नि० // ४°काम्ली विकाम्लिका नि० // 5 °डी गुरुपु नि० //