________________ 10 32] सटीके निघण्टुशेषे [ श्लो० 52474] इत्यले निपात्यते; जम्भान्-दन्तान् लात्यम्लत्वाद्वा / जम्भते जम्भः, अच्, [पंक्लीबलिङ्गः] "कृ-श-प-पूग-मञ्जि-' हैमोणादिसू० 418] इति बहुवचनादीरे जम्भीरः, "जम्भेर्मोहनार्थस्यैतानि रूपाणि” इति क्षीरस्वामी / दन्तान् हर्षयति दन्तहर्षणः // 51 // दन्ताः शठाः अस्मादिति दन्तशठः / वक्त्रं शोधयत्यवश्यं वक्त्रशोधी, "णिन् चाऽऽवश्यका-" [सिद्ध 0 5. 4. 36] इति णिन्; वक्त्रस्य शोधो वक्त्रशोधः स विद्यते अस्य वा / गच्छति गम्भीरः "जम्बीरा-ऽऽभीर-' 'हैमोणादिसू० 422] इतीरे निपात्यते / रोचते रोचनः, “इङितो व्यञ्जनाद्यन्तात्" [सिद्ध 0 5.2.44 ] इत्यनः / आह च जम्भीरो जम्भलो जम्भः प्रोक्तो दन्तशठस्तथा / जम्बीरो वक्त्रशोधी च रोचनो दन्तहर्षणः // ] इति / एतस्य लोके 'जम्बीर' इति प्रसिद्धिः / __करुणे तु छागलाख्यो मल्लिकाकुसुमः प्रियः // 52 / / 15 "कृत् विक्षेपे" कीर्यते करुणः, “ऋ-कृ-वृ-ध-दारिभ्य उणः” [हैमोणादिसू० 196] इत्युणः, तत्र / छागलस्याख्या अस्य छागलाख्यः। मल्लिकाया इव कुसुममस्य मल्लिकाकुसुमः / मल्लिकापुष्पोऽपि / प्रीणाति हृदयं प्रियः, “नाम्युपान्त्य-" [सिद्ध 0 5.1.54 ] इति कः / एतस्य लोके -- करणा' इति प्रसिद्धिः // 52 // बीजपूरे बीजपूर्णः पूरकः फलपूरकः / सुपूरको मातुलुङ्गः केसराम्लोऽम्लकेसरः // 53 // वराम्लो बीजको लुङ्गो रुचको मध्यकेसरः। कृमिघ्नो गन्धकुसुमः केसरी शीधुपादपः // 54 // बीजैः पूर्यते बीजपूरः, तत्र / बीजैः पूर्णो बीजपूर्णः। पूरयति पूरकः / फलानि पूरयति फलपूरकः। सुतरां पूरयति सुपूरकः / मा तोल्यते मातुलुङ्गः, 25 "माङस्तुलेरुङ्गक च” [हैमोणादिसू० 106] इति उङ्गक् प्रत्ययः / केसरा अम्लाः अस्य केसराम्लः; केसरश्चासौ अम्लश्चेति वा / अम्लाः केसराः अस्य अम्लकेसरः // 53 // वरश्चासौ अम्लश्च बराम्लः। बीजाः सन्त्यस्य बीजः, अभ्रादित्वादः, स्वार्थिके के बीजकः। मातुलुङ्गशब्दस्य पृषोदरादित्वाद् मातुइत्येतस्य लोपे लुङ्गः / 1 साधुपादपः नि० //