________________ 52] प्रथमो वृक्षकाण्डः / गुडौ गोलेक्षु-विकृती स्नुही-गुलिकयोर्गुडा / ] इति // 49 // समन्ततो दुग्धमस्याः समन्तदुग्धा, पृषोदरादित्वात् तकारलोपः। “हुडुङ् सङ्घाते" सीति हुण्डते सीहुण्डः, सिंहतुण्डापभ्रंशः / यद् मेखला-- "कुलिशतरुः सीहुण्डः' [ ] इति / गुडति गण्डीरः, “जम्बीरा-ऽऽभीर-" [ हैमोणादिसू० 422] इति ईरे निपात्यते; गण्डीन् -ग्रन्थीन् ईरयति वा / वज्रवद् भेदकानि कण्टकान्यस्य वज्रकण्टकः। आह च-- स्नुक् सुधा च महावृक्षो गुडा निस्त्रिंशपत्रकः / समन्तदुग्धा गण्डीरः सीहुण्डो वज्रकण्टकः // ] इति / एतस्या लोके 'थोहरी' इति प्रसिद्धिः / . करमर्दे करमेन्दः कराम्लक-सुषेणको // 50 // . स्थूलपर्कट आविग्नः कृष्णपाकफलोऽपि च / करेण मृद्यते करमर्दः, तत्र / करेण मन्दः करमन्दः / करे अम्ल इव कराम्लः , 15 स्वार्थिके के कराम्लकः। शोभना सेनाऽस्य सुषेणः कपिमुखाभः, “एत्यकः” [सिद्ध 0 2. 3. 26] इति षत्वम् , स्वार्थिके के सुषेणकः॥५०॥ स्थूलं पर्कटं-फलमस्य स्थूलपर्कटः "ओविजेति भय-चलनयोः” उद्विजतेऽस्माद् आविग्न:, “दिन-नग्न-" [ हैमोणादिसू० 268] इति ने निपात्यते / कृष्णं पाके फलमस्य कृष्णपाकफलः / आह च करमर्दकमाविग्नं सुषेणं पाणिमर्दकम् / कराम्ल करमन्दं च कृष्णपाकफलं मतम् // ] इति / सर्वेऽप्येते पुं-क्लीबलिङ्गाः / करमर्दकनामानि / लोके 'करमदा' इति प्रसिद्धिः / जम्बीरे जम्भलो जम्भो जम्भीरो दन्तहर्षणः // 51 // 23 दन्तशठो वक्त्रशोधी गम्भीरो रोचनोऽपि च / "जमू अदने" जम्यते जम्बीरः, "जम्बीरा-ऽऽभीर-'' [हैमोणादिसू० 422] इति ईरे निपात्यते, तत्र / “जभुङ् गात्रविनामे' जम्भते जम्भलः, “मुरलोरल-" [हैमोणादिसू० १°मदः कराम्रक नि० // 2 स्थलपर्केट नि० // 3 जम्भीलो नि० // 20