________________ *30] सटीके निघण्टुशेषे [श्लो० 48 राजार्के त्वलर्को गणरूपकः // 48 // एकाष्ठीलः सदापुष्पी मन्दारश्च प्रतापसः / राजा चासौ अर्कश्च राजार्कः, श्वेतोऽयम् , तत्र / शुक्लोऽर्कः अलर्कः, पृषोदरादित्वात् साधुः; अलति-भूषयतीति वा, “निष्क-तुरुष्क-" हैमोणादिसू० 26] 5 इति के निपात्यते / यत् श्रीधरः"अलकों धवलार्के स्यात्" [ . ] इति / गणाः-बहवो रूपाण्यस्य गणरूपः, स्वार्थिके के गणरूपकः // 48 // एकोऽष्ठील:-मज्जाऽस्य एकाष्ठीलः / सदा पुष्पाणि सन्त्यस्य सदापुष्पी / मन्दान् इयर्ति मन्दारः; मन्दा आरा अस्य वा / प्रतापं स्यति प्रतापसः, “घोंच 10 अन्तकर्मणि" इत्यस्माद् डप्रत्ययः / आह च राजार्को वसुकोडेन्योऽर्को मन्दारो गणरूपकः / एकाष्ठीलः सदापुष्पी सुधा- लर्कः प्रतापसः // ] इति.। एतस्य लोके 'आकुमन्दारु' इति प्रसिद्धिः / यदमरः13 अर्काह-वसुका-ऽऽस्फोट-गणरूप-विकीरणाः // मन्दारश्चार्कपर्णेऽत्र शुक्लेऽलर्क-प्रतापसौ / [का० 2 वर्ग 4 श्लों० 80-81 ] इति / स्नुह्यां वज्रो महावृक्षोऽसिपत्रः स्नुक सुधा गुडा // 49 // समन्तदुग्धा सीहुंण्डो गण्डीरो वज्रकण्टकः / 20 "ष्णुहौच उद्गिरणे" स्नुह्यति [क्षीरं] स्नुहिः, “नाम्युपान्त्य-'' [हैमोणादिसू० 609 ] इति किदिः; स्नुहेति वैद्याः, तस्याम् / वज्र इव वज्रः, भेदकत्वात् / महाँश्चासौ वृक्षश्च महावृक्षः। असिः खड्गस्तदाभानि पत्राण्यस्य असिपत्रः / “स्नुक् प्रस्नवने" स्नौति क्षीरं स्नुक स्नुको स्नुकः, “द्रागादयः" हैमोणादिसू० 870] इति किक्प्रत्ययान्तो निपात्यते / सुष्टु दधाति धयन्ति एनां वा सुधा / “गुङ् शब्दे' गवते गूयते 33 वा गुडा, “कु-गु-हु-नी-" [ हैमोणादिसू० 170] इति कित् डः; गुडति-रक्षति वा, "नाम्युपान्त्य-" [सिद्ध 0 5.1. 54] इति कः / यच्छाश्वतः 1 पुष्पो म नि० // २°ऽज्योऽर्को पु 1 // 3 त्रुटयां वज्रो नि० // 4 सुक् नि० // 5 सेहुण्डः शण्डेरी चक्रकण्टकः नि०॥