SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ 10 48] प्रथमो वृक्षकाण्डः। [29 कपीस्तनोति कपीतनः। पीतीक्रियते अनेन पीतयति वा पीतनः, स्वार्थिक के पीतनकः / “कपीतनशब्दस्य पीतनोऽपभ्रंशे” इत्येके / तनु-तुच्छं क्षीरमस्य तनुक्षीरः / अम्लं पाटयति अम्लपाटकः / पटधातु सार्थश्चौरादिकः / शाम्यति शुङ्गी, “कमितमि-" [ हैमोणादिसू० 107] इति डिदुङ्गः, गौरादित्वाद् ङीः / यन्महेश्वरः--- शुङ्गी वटा-ऽऽम्रातकयोः कर्कट्यामपि विश्रुता / ] इति / कपिरसेन आढयः कपिरसाढयः। दूष्यं फलमस्य दृष्यफल: / भीषि बिभीषयते विभीषणः, “नन्द्यादिभ्योऽनः' [सिद्ध 0 5. 1. 52] इत्यनः / आह च आम्रातकः पीतनकः कपिचूतोऽम्लपाटकः / शुङ्गी कपिरसाढ्यश्च तनुक्षीरः कपिप्रियः // [ ] इति / / आम्रातकनामानि / लोके 'अम्बाडओ' इति प्रसिद्धिः // 47 // अर्के विकीरणोऽर्कावो जम्भला-ऽऽस्फोट-विष्किराः। क्षीरा-ऽर्कपर्णः अय॑ते स्तूयतेऽर्कः / यदाह श्रीधरः-- "अर्कः सूर्येऽर्कपणे च” [ ] इति / महेश्वरोऽपि''अर्कोऽर्कपणे स्फटिके" [ ] इति / तत्र / विकिरति पुष्पाणि विकीरणः, पृषोदरादित्वात् साधुः / अर्कः-सूर्यस्तस्य आह्वा-नाम अस्य अर्काहः / तेन भास्करः रविरित्यादयोऽप्यवसेयाः / जम्भं लाति 20 जम्भलः। “स्फुटत् विकसने" आस्फुटति पुष्पैः आस्फोटः, णिति गुणः, अच् ( घ) प्रत्ययः / विकिरति विष्किरः, "वौ विष्किरो वा' [सिद्ध 0 4. 4. 96] इति सडागमः / उपलक्षणोऽयम् , तेनान्यत्रापि / 'क्षीरा-ऽर्कपर्णः' इति क्षीरा-ऽर्कयोः पर्ण इति सम्बध्यते, तेन क्षीरं पर्णेऽस्य क्षीरपर्णः, अर्काभानि पर्णान्यस्य अपर्णः। आह च अर्कः सूर्याह्वयः पुष्पी विष्किरोऽथ विकीरणः / जम्भलः क्षीरपर्णः स्यादास्फोटो भास्करो रविः // ] इति / एतस्य लोके 'आकु' इति प्रसिद्धिः / तन्नामानि
SR No.032753
Book TitleNighantu Shesh
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages414
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy