________________ 045 28] सटीके निघण्टुशेषे . राज्ञाम् अदनं मृष्टत्वाद् राजादनम् , पुं-क्लीबलिङ्गः, तत्र / राज्ञे हिता राजन्या, "तस्मै हिते " [सिद्ध० 7.1.35] इति हितेऽर्थे यः / क्षीरमस्त्यस्याः क्षीरिका, क्षीरस्वादुत्वात् , “अतोऽनेकस्वरात् ' [सिद्ध 0 7.2.6] इतीकः / प्रियं दर्शनमस्य प्रियदर्शनः // 44 // 5 कपः प्रियः कपिप्रियः / दृढः स्कन्धः-प्रकाण्डोऽस्य दृढस्कन्धः / [ 'मधु रालफलः'] मधुरालाभ्यां फलमिति योज्यते, ततः मधु-मृष्टं फलमस्य मधुफलः, रालवणं फलमस्य रालफलः / नृपप्रियत्वाद् नृपः। आह च ---- क्षीरिकोक्ता च राजन्या क्षीरभृद् रूपको नृपः / राजादनो दृढस्कन्धः कपीष्टः प्रियदर्शनः // ] इति / राजादननामानि / लोके तु 'रायणी' इति प्रसिद्धिः / पियाले तु राजवृक्षो बहुवल्को धनुष्पटः // 45 // सन्नकद्रुः खरस्कन्धश्चारस्तापसवल्लभः / "पां पाने" पीयते पियालः, “कुलि-पिलि-विशि-विडि-मृणि-कुणि-पी-प्रीभ्यः कित्" 15 हैमोणादिसू० 476] इत्यालः प्रत्ययः, तत्र / राज्ञां वृक्षो राजवृक्षः / बहवो वल्का अस्य बहुवल्कः / धनुष इव पटः-विस्तारोऽस्य धनुष्पटः // 45 // सन्नकः-खरो द्रुः स्कन्धोऽस्य सन्नकद्रुः / खरः-कठोरः स्कन्धोऽस्य खरस्कन्धः / “चर भक्षणे च” चयते-अद्यते चरः, चर एव चारः, प्रज्ञादित्वादण् / तापसानां वल्लभः तापसवल्लभः / आह च20 पियालोऽथ खरस्कन्धश्चारो बहुलवल्कलः / सन्नकद्रुश्चापपटो ललनस्तापसप्रियः // ] इति / चापपट इति पर्यायेणोक्तः / पियालनामानि / लोके 'चारु' इति प्रसिद्धिः / आम्रातके वर्षपाकी कपिचूतः कपिप्रियः // 46 // कपीतनः पीतनकस्तनुक्षीरोऽम्लपाटकः। शुङ्गी कपिरसाठ्यश्च दूष्यफलो बिभीषणः // 47 // __ "अम शब्द-भक्त्योः " अमति आम्रातकः, "श्लेष्मातका-ऽऽम्रातक-" [हैमोणादि वर्षपाकी / कपेश्चूतः-आम्रः कपिचूतः / कपेः प्रियः कपिप्रियः // 46 //