________________ 26] सटीके निघण्टुशेषे [श्लो० ४१विज्ञेया पर्कटी प्लक्षः प्लक्षः पिप्पलपादपः / ] इति / तस्याम् / पर्कटाख्यं फलमस्त्यस्य पर्कटी, इन्नन्तोऽयम् / यद् वाचस्पतिः“फलं त्वेतस्य पर्कटम् " [ ] इति / 5 प्लक्षशब्दस्य साधना अत्र पूर्ववत् / सती दयते-पालयति सतीदः। लक्ष___ यति लक्षणः / जटाः सन्त्यस्य जटी, शिखादित्वादिन् / वटे वैश्रवणावासो न्यग्रोधो बहुपाद् ध्रुवः // 41 // स्कन्धजन्मा रक्तफलः क्षीरी शुङ्गी वनस्पतिः। वटति-वेष्टयति मूलैटः, तत्र / वैश्रवणस्य-धनदस्य आवासो वैश्रवणावासः। 10 न्यग् रोहति न्यग्रोधः, “वीरुन्न्यग्रोधौ” [सिद्ध 0 4.1.121] इति धत्वे साधुः ; न्यक्-तिर्यग्माणु मूलै रुणद्धि वा / बहवः पादाः-मूलान्यस्य बहुपाद, "सुसङ्ख्यात्" [सिद्ध 0 7.3.150] इति पाद्भावः / "ध्रुत् गति-स्थैर्ययोः" ध्रुवति ध्रुवः, "तुदादिविषि-" [हैमोणादिसू० 5] इति किदः प्रत्ययः // 41 // स्कन्धात्-प्रकाण्डाद् जन्माऽस्य स्कन्धजन्मा / रक्तानि फलान्यस्य रक्तफलः / . 15 क्षीरमस्त्यस्य क्षीरी। शुङ्गीशब्दस्य साधना प्राग्वत् / वनस्य पतिः वनस्पतिः, वर्चस्कादित्वात् साधुः / आह च वटो रक्तफलः शुङ्गी न्यग्रोधः स्कन्धजो ध्रुवः / - क्षीरी वैश्रवणावासो बहुपादो वनस्पतिः // [ ] इति / 30 न्यग्रोधनामानि / लोकेऽस्य ‘वडु' इति प्रसिद्धिः / उदुम्बरे जन्तुफलो यज्ञाङ्गो हेमदुग्धकः // 42 // सदाफलो वसुवृक्षः श्वेतवल्को मशक्यपि / "उन्दी (? उन्दैप् ) क्लेदने” उनत्ति उदुम्बरः, “तीवर-धीवर-" [ हैमोणादिसू० 441 ] इति वरटि निपात्यते, निपातनाद् उन्देर्धातोः किदुम् चान्तः ; उल्लचितोऽ25 म्बर इति वा, पृषोदरादित्वाद् उत्वम् , तत्र / मशकगर्भाणि फलान्यस्य जन्तुफलः / अत एव कृमिफल इति पर्यायेणोक्तः / यज्ञ एवाङ्गोऽस्य यज्ञाङ्गः / हेमवर्णं दुग्धमस्य हेमदुग्धः, के हेमदुग्धकः // 42 //