________________ प्रथमो वृक्षकाण्डः। [25 गर्दभाण्डे कन्दरालश्छायावृक्षः कमण्डलुः // 39 // प्लक्षो वटः प्लवः शुङ्गी सुपाचश्चारुदर्शनः। कपीतनः कपीतः स्यात् पीतन-प्लवकावपि // 40 // गर्दभ इवाण्डमस्य गर्दभाण्डः; गर्दै-सशब्दं भाण्डमस्येति वा, तत्र / कन्दरां लाति कन्दरालः, शोणादित्वात् कन्दराशब्दस्याबन्तत्वम् / छायायुक्तश्छायाया / वा वृक्षः छायावृक्षः / कं-पानीयमनिति-प्राणित्यस्मिन्निति कमण्डलुः, “गूहलुगुग्गुलु-कमण्डलवः" [ हैमोणादिसू० 824 ] इति आलुप्रत्यये निपात्यते, निपातनाच्च कम्पूर्वादनिते?ऽन्तो हस्वश्च प्रत्ययादेः, पुल्लिङ्गः // 39 // . प्लक्षति-अधो गच्छति प्लक्षः; "प्लुष दाहे" प्लोषत्यशिवमिति वा, "प्लुषेः प्लष् च" [हैमोणादिसू० 566] इति सः प्रत्ययो धातोश्च प्लष् इत्यादेशः / वटति-वेष्टयति 10 मूलैर्बटः, अच् , त्रिलिङ्गः / ' प्लुङ् गतौ' प्लवते अशिवमस्मादिति प्लवः / शाम्यति शुङ्गी, " कमि-तमि-" [ हैमोगादिसू० 107 ] इति डिदुङ्गः, गौरादित्वाद् ङीः / शोभनं पार्श्वमस्य सुपार्श्वः / चारु–मनोहरं दर्शनमस्य चारुदर्शनः / कं पीतयति कपीतनः; " इण्क. गतौ” कपीन् एति वा, पृषोदरादित्वात् / कं पीतयति कपीतः, अच् / कपीतनशब्दसम्बन्धिककारस्य पृषोदरादित्वाल्लोपे पीतनः; पीतयति वा पीतनः। 15 प्लवते वातेन प्लंबकः। आह च प्लक्षः कपीतनः शुङ्गी सुपार्श्वश्चारुदर्शनः / प्लवको गर्दभाण्डश्च कमण्डलुर्वटः प्लवः // ] इति / अमरोऽपि गर्दभाण्डे कन्दराल-कपीतन-सुपार्श्वकाः / [का०२ वर्ग 4 श्लो०४३ ] इति / गर्दभाण्डनामानि / लोके तु -- पीपरी' इति प्रसिद्धिः // 40 // पेर्कटयां पर्कटी प्लक्षः सतीदो लक्षणो जटी / " पृचैप् सम्पर्के " पृच्यते पर्कटी, " कपट-कीकटादयः " [हैमोणादिसू० 25 144 ] इत्यटे निपात्यते, गौरादित्वाद् ङीः / यत् शाश्वतः 1 कर्पटी पर्कटी प्लक्षः सतीदो लक्षणे नटी नि०॥