________________ 24] सटीके निघण्टुशेषे [प्रलो० ३८अतिमुक्तनामानि / लोके 'अमीतउ' इति प्रसिद्धः / पिप्पले बोधिरश्वत्थः श्रीवृक्षश्चलपत्रकः // 38 // मङ्गल्यः केशवावासः श्यामलो द्विरदाशनः / " पल गतौ” पलति पिप्पलः, " पृ-पलिभ्यां टित् पिप् च पूर्वस्य" [ हैमो5 णादिसू० 11 ] इति अः प्रत्ययः पिप् च पूर्वस्य; पिप्पलानि-देश्यां पत्राणि, तानि सन्त्यस्य वा, अभ्रादित्वादः / " अपि प्लवते” इति नैरुक्ताः / " एवमाद्याः प्राकृता अपि" इति धन्वन्तरिः / यदाह प्रायो जनाः सन्ति वनेचराद्या गोपादयः प्राकृतनामतज्ज्ञाः / प्रयोजनार्था वचनप्रवृत्तिर्यतस्ततः प्राकृत इत्यदोषः // ___] इति / रस-वीर्य-विपाकेभ्यो मूलात् पुष्पात् फलाद् दलात् / आकाराद् देश-कालादेवनौषध्यर्थमुन्नयेत् // . ] इति / 15 तत्र / बुध्यते बोधिः, " किलि-पिलि-" [हैमोणादि सू० 608 ] इति इः, बोधिसत्त्वाख्यः सर्वोपकारित्वात् तनुवृत्तत्वाद् गुरुपर्णत्वाच्च / अश्वेषु तिष्ठति अश्वत्थः अश्वाश्रयः, पृषोदरादित्वात् सस्य तत्वम् / श्रिया युक्तो वृक्षः श्रीवृक्षः / स्वल्पवातेऽपि चलानि पत्राण्यस्य चलपत्रः, स्वार्थिके के चलपत्रकः // 38 // मङ्गले साधुर्मङ्गल्यः, “तत्र साधौ” [ सिद्ध 0 7.1.15 ] इति यः / 20 केशवस्य आवासः केशवः आवसत्यत्रेति वा केशवावासः / अत एव कृष्णावासः। श्यामो वर्णोऽस्त्यस्य श्यामलः, सिध्मादित्वाद् लः / द्विरदस्य अशनः- भक्तं द्विरदाशनः, पुं-क्लीबलिङ्गः / आह च पिप्पलः केशवावासश्चलपत्रः पवित्रकः / मङ्गल्यः श्यामलोऽश्वत्थो बोधिवृक्षो गजाशनः // ] इति / एतस्य लोके 'पीपल' इति प्रसिद्धिः /