________________ [23 38] प्रथमो वृक्षकाण्डः / "णल गन्धे” नलति नली, स्वार्थिक के नलिका, तस्याम् / कपोताहिरिवं कपोतांहिः, नलिकत्वात् / निर्गतं मध्यमस्या निर्मध्या / शुषिः-छिद्रमस्या अस्ति / शुषिरा, "मध्वादिभ्यो रः” [सिद्ध 0 7.2.26] इति रः / नटति-नृत्यति वायुना नटी, नर्तकीत्वात्, अच्, गौरादित्वाद् ङीः // 36 // अञ्जनाभाः केशा अस्याः अञ्जनकेशी / धमनीव धमनी, शौषिर्यात् / 5 शुने हिता शून्या, “शुनो वश्चोदूत्" [ सिद्ध 0 7.1.33 ] इति यः। विद्रुमवल्लीव विद्रुमवल्ली नखीयम् / आह च नलिका विद्रुमलता कपोतचरणा नली / शुषिरा धमनी शून्या निर्मध्या नर्तकी नटी // ] इति / 10 अतिमुक्ते मण्डकः स्यात् पुण्ड्रको भ्रमरोत्सवः // 37 // पराश्रयः संवसन्तः कामुको माधवी लता / अतिक्रान्तो मुक्तान्-विरक्तान् अतिमुक्तः, तत्र / मण्डयति मण्डकः, णकः / पुण्ड्रदेशोद्भवत्वात् पुण्ड्रः, स्वार्थिके के पुण्ड्रकः / भ्रमराणामुत्सवोऽस्मादिति 15 भ्रमरोत्सवः // 37 // परः-श्रेष्ठः आश्रयोऽस्य पराश्रयः, परैराश्रीयते वा / शोभनो वसन्तोऽस्मादिति सुवसन्तः। कमनशीलः कामुकः, “श-कम-" [ सिद्ध 0 5.2.4 0 ] इत्युकण् / मधौ–वसन्ते भवा माधवी, “भर्तु-सन्ध्यादेरण्" [ सिद्ध० 6.3.89 } इत्यम् / लाति लता, " पृषि-रञ्जि-" [ हैमोणादिसू० 208 ] इति किदतः / 20 आह च अतिमुक्तः पुण्ड्रकः स्याद् वासन्ती माधवी लता / [अमर० का०२ वर्ग४ श्लो०७२ ] इति / अन्योऽप्याह अतिमुक्तो माधवी च सुवसन्तः पराश्रयः / अतिमुक्तः कामुकश्च मण्डको भ्रमरोत्सवः // ] इति / 1 सुवासन्ती का नि० //