SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ 22] सटीके निघण्टुशेषे [ श्लो० ३५स्वार्थिक के कक्कोलकम, तत्र / कटु-क्षारं फलमस्य कटुफलम् / कोलति-संस्त्यायति कोलम्, स्वार्थिक के कोलकम् / माधवे उष्यते स्म माधवोषितम् // 34 // ___ कोलति कोलम्, अच् / कोशे फलान्यस्य कोशफलम् / कोलशब्दस्य र-लयोरैक्ये कोरम् / "मृत् प्राणत्यागे" म्रियते अनेन मारीचम्, “म्रियतेरीचण्" 5 [ हैमोणादिसू० 118] इतीचण, पुं-क्लीबलिङ्गः / द्वीपमिव द्वीपम् / आह च कक्कोलकं कृतफलं कोलकं कटुकाफलम् / तैलं कटुफलं द्वीपं मारीचं माधवोषितम् // ] इति / एतस्य लोके 'कङ्कोल' इति प्रसिद्धिः / 10 लवङ्गे शिखरं दिव्यं भृङ्गारं वारिजं लवम् // 35 // श्रीपुष्पं श्रयाह्वयं देवपुष्पं चन्दनपुष्पकम् / "लूग्श छेदने" लूयते लवङ्गम्, “पति-तमि-" [ हैमोणादिसू० 98] इत्यङ्गः, तत्र / “शाख व्याप्तौ" शाखति शिखरम्, “शाखेरिदेतौ चातः" [ हैमोणादि सू० 400] इत्यरः, धातोराकारस्य चेकारः; शिखराकारत्वाद्वा / दिवि भवं दिव्यम्, “धुप्रागपागुद15 प्रतीचो यः” [सिद्ध 06.3.8] इति यः / भ्रियते भृङ्गारम्, "द्वार-शृङ्गार-" [हैमोणादि. सू०४११] इत्यारे निपात्यते / वारिणि-जले जातं वारिजम्, "क्वचित्" [सिद्ध 05.1. 171] इति डः / लूयते लवम् // 35 // श्रियाः पुष्पं श्रीपुष्पम् / श्रिया आह्वयो यस्य तत् श्रयायम् / देवं-द्युतिमद् देवानां वा पुष्पं देवपुष्पम् / चन्दनस्य पुष्पम् चन्दनपुष्पम्, स्वार्थिके के 30 चन्दनपुष्पकम् / आह च--- लवङ्गं देवकुसुमं भृङ्गारं शिखरं लवम् / दिव्यं चन्दनपुष्पं च श्रीपुष्पं वारिसम्भवम् // ] इति / एतस्य लोके 'लवङ्ग' इति प्रसिद्धिः / नलिकायां कपोतांहिनिर्मध्या शुषिरा नटी // 36 // अजनकेशी धमनी शून्या विद्रुमवल्ल्यपि / 1 धमन्यञ्जनकेशी च शू नि० //
SR No.032753
Book TitleNighantu Shesh
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages414
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy