SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ 35] प्रथमो वृक्षकाण्डः। [21 ___ स्थूला चासौ एला च स्थूलैला तस्याम् / बृहती चासौ एला च बृहदेला / पत्रोपलक्षिता एला पत्रैला / त्वचा सुगन्धिका त्वक्सुगन्धिका // 32 // त्रिदिवे-स्वर्गे उद्भवः-उत्पत्तिर्यस्याः सा त्रिदिवोद्भवा / पृथ्वी प्रतिकृतिः पृथ्वीका बहुपर्णत्वात्, “तस्य तुल्ये कः संज्ञा-प्रतिकृत्योः' [सिद्ध०७.१.१०८] इति कः / कर्णयति कणिका, णके आप् / त्रीणि पुटान्यस्याः त्रिपुटा त्र्यस्रिः / पुटानि / सन्ति अस्याः पुटा, अभ्रादित्वादः / आह च -- भदैला वृहदेला च त्रिदिवा त्रिपुटोद्भवा / स्थूलैला त्वक्सुगन्धा च पृथ्वीका धान्यका पुटा // ] इति / बृहदेलानामानि / लोके तु 'कङ्कोली एला' इति प्रसिद्धिः / 10 कपूरे स्याद घनसारो हिमाहवो हिमवालुका // 33 // सिताभ्रः शोतलरजः स्फटिकश्चन्द्रनामकः / कल्पते कर्पूरः, पुं-क्लीबलिङ्गः, “मी-मसि-" [ हैमोणादि सू०४२७] इत्युरः, [तत्र / घनस्येव सारोऽस्य घनसारः / हिमस्याऽऽहाऽस्य हिमादः, शीतलावात् / हिमाशीता चासौ वालुका च हिमवालुका // 33 // 15 __ सिताभ्रसदृशत्वात् सिताभ्रः, दन्त्यादिः / शीतलं रजोऽस्य शीतलरजः / स्फटिक इव स्फटिकः, निर्मलत्वात् / चन्द्रस्य नाम अस्य चन्द्रनामा, स्वार्थिक के चन्द्रनामकः, आह्लादकत्वात् / चन्द्रपर्याया अपि] / आह च - कर्पूरः शीतलरजः सिताभ्रः स्फटिको हिमः / चन्द्रस्तुषारस्तुहिनः शशीन्दु-हिमवालुकाः // ] इति / कर्पूरनामानि / लोके 'कपूर' इति प्रसिद्धिः / .. कक्कोलके कटुफलं कोलकं माधवोषितम् // 34 // कोलं कोशफलं कोरं मारीचं द्वीपमित्यपि / कचते-दीप्यते ककोलम्, “पिञ्छोल-कल्लोल-" [ हैमोणादि सू०४९५ ] इत्योले 25 निपात्यते; “ककि लौल्ये, ककतेऽत्र के कोलति-संस्त्यायति वा” इति क्षीरस्वामी 1 कपूरे घनसारः स्याद् हिमा नि० // 2 कोमकं मागधोत्थितम् नि० //
SR No.032753
Book TitleNighantu Shesh
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages414
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy