SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ 20] सटीके निघण्टुशेषे [श्लो० ३१तमालस्य पत्रं तमालपत्रम् , तत्र / वस्वारस्यं वसुनामत्वात् / रोमाणि स्यति रोमसम् / तमोऽस्त्यस्य तामसम्, श्यामत्वात् , ज्योत्स्नादित्वादण् / दलम् पत्राख्यत्वात् / यदाह--- तमालपत्रं पत्रं स्यात् पलाशं च दलं छदम् / __] इति / तमालपत्रनामानि // सूक्ष्मैलायां चन्द्रबाला द्राविणी निष्कुटिस्तुटिः // 31 // कपोतवर्णिका तुच्छा कोरङ्गी बहुला तुला / एलयति- मुखदौर्गन्ध्यं प्रेरयति एला, सूक्ष्मा चासौ एला च सूक्ष्मैला, 10 तस्याम् / चन्द्रस्य-कपूरस्य बाला-पुत्रीव चमत्कारादिति चन्द्रबाला / द्रावयति-मुख दौर्गन्ध्यमवश्यमिति द्राविणी, आवश्यके णिन्निति णिन् / निष्क्रान्ता कुटे:--कोशाद् निष्कुटिः / “तुटत् कलहे" तुटति तुटिः, “नाम्युपान्त्य-" [सिद्ध 05.1.54] इति किदिः, स्त्रीलिङ्गः। "त्रुटत् छेदने" रोपान्त्योऽयम्, “नाम्युपान्त्य-" [सिद्ध०५.१.५४] इति किदिप्रत्यये त्रुटिरित्यपि // 31 // 15 कपोतस्येव वर्णोऽस्याः कपोतवर्णा, स्वार्थिके के कषोतवर्णिका / तुच्छा लघीयसीत्वात् / कुरति-शब्दायते कोरङ्गी, "शृङ्ग-शादियः" [हैंमोणादिसू० 96] इति गे निपात्यते, गौरादित्वाद् ङीः / बहते बहुला, “स्था-वङ्कि-वंहि-" हैमोणादिसू० 486] इति उलो न लोपश्च; बहूनि पर्णानि लाति वा / तोल्यते तुला, भिदादित्वात् साधुः / आह च - सूक्ष्मैला द्राविडी तुच्छा कोरङ्गी बहुला त्रुटिः / एला कपोतवर्णा च चन्द्रबाला च निष्कुटिः // __] इति / सूक्ष्मैलानामानि / लोके 'एलची' इति प्रसिद्धिः / स्थूलैलायां बृहदेला पत्रैला त्वक्सुगन्धिका // 32 // 25 त्रिदिवोद्भवा पृथ्वीका कणिका त्रिपुटा पुटा / 1. द्राविडी नि०॥ 2 भद्रेला नि० // 20
SR No.032753
Book TitleNighantu Shesh
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages414
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy