SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ 31] प्रथमो वृक्षकाण्डः। [ 19 ___किरति-क्षिपति करवीरः, "जम्बीरा-ऽऽभीर-" हैमोगादिसू० 422] इतीरे निपात्यते; कृणोति-हिनस्ति करः, स वीर इव मारकत्वाद्वा करवीरः; कराः-कर्तारो वीरा अत्रेति वा, तत्र / कणा वीरा इव अस्य कणवीरः; “कण आर्तस्वरे" इति बोपदेवधातुपाठोक्तेः कणन्ति कणाः, कणाः वीरा अस्मादिति वा / श्वेतानि पुष्पाण्यस्य श्वेतपुष्पः / अश्वान् उपभुक्तो मारयति अश्वमारकः / प्रतीपः-अश्वघ्न- 5 त्वाद् हासः-विकासोऽस्य प्रतिहासः / शतं-बहूनि प्रासाः कुन्ता इव पुष्पाण्यस्य शतपासः / अश्वं रोहति अवरोहः / कुमुदमिव उद्भवोऽस्य कुमुदोद्भवः / आह चशतकुन्तः श्वेतपुष्पः प्रतिहासोऽश्वरोहकः / ] इति / अश्वहा अश्वघ्नः श्वेतकुन्दश्च श्वेतकणवीरनामानि // 29 // रक्तपुष्पेऽत्र लगुडचण्डातश्चण्ड-गुल्मको / 'अत्र' इति रक्तपुष्पे कणवीरे "लगे सङ्गे" लगति लगुडः, “लगेरुडः" हैंमोणादिसू० 177] इत्युडः प्रत्ययः / चण्डमतति तीक्ष्णत्वात् चण्डातः / चण्डातकोऽपि / चण्ड इव चण्डः तैक्ष्ण्यात् / गुल्मं किरति-क्षिपति गुल्मकः, "क्कचित्" [सिद्ध० 5.1.171] इति डः / यदाह द्वितीयो रक्तपुष्पस्तु चण्डातो लगुडस्तथा / चण्डातको गुल्मकश्च प्रचण्डः करवीरकः // गुल्महरोऽपि [ ] इति / रक्तकणवीरनामानि / तमाले तु कालस्कन्धस्तापिच्छो रञ्जनो वसुः // 30 // 20 "तमूच् काङ्खायाम्" ताम्यति तमालः,"ऋ-कृ-मृ-" हैमोणादिसू० 475] इत्यालः, पुं-क्लीबलिङ्गः, तत्र / कालः स्कन्धोऽस्य कालस्कन्धः / तापिनश्छादयति तापिच्छः, "क्वचित्" [सिद्ध 05.1.171] इति डः / पृषोदरादित्वाच्चानुस्वारागमे तापिञ्छोऽपि / रञ्जयति रञ्जनः / वसति श्यामवर्णोऽत्र वसुः, "भृ-मृ-तृ-त्सरि-"हैमोणादिसू० 716] इत्युः / एतस्य लोके 'तमाल' इति प्रसिद्भिः // 30 // तमालपत्रे वैस्वाख्यं रोमसं तामसं दलम् / 1. कालस्कन्धस्तमाले स्यात् तापि नि० // 2. वस्त्राख्यं नि० // . 15 25
SR No.032753
Book TitleNighantu Shesh
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages414
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy