SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ . 18] सटोके निघण्टुशेषे [ग्लो०२७__अस्मिन् निर्गन्धे द्रुमोत्पले कर्णिकामियति कर्णिकारः / निषिध्यते अम्भसेति निषीधः, पृषोदरादित्वात् / पीतानि पुष्पाण्यस्य पीतपुष्पः, स्वाथिके के पीतपुष्पकः / गन्धरहितकणयरनामानि // पुन्नागे तु महानागः केसरो रक्तकेसरः // 27 // पूजितः पुमान् पुन्नागः, स इव प्राधान्यात्, [तत्र / महानाग इव महानागः, स इव प्राधान्यात्; महांश्चासौ नागश्चेति वा / प्रशस्ताः केसराः सन्त्यस्य केसरः, अभ्रादित्वादः / रक्ताः केसरा अस्य रक्तकेसरः // 27 // देवानां वल्लभो , देववल्लभः, कुम्भीको रसाधारत्वात्, अनयो10 ईन्द्वः / तुङ्गः उच्चस्तरत्वात्। “तमूच् काङ्क्षायाम्" ताम्यते वा तुङ्गः, "कमितमि-शमिभ्यो डित्" [ हैमोणादिसू० 107 ] इति डिदुङ्गः / पुरुषनामकः पुरुषाख्यत्वात् / यदवादीन्दुना तुङ्गः पुष्पकसंज्ञः स्यात् पुन्नागो रक्तकेसरः / पुन्नागः पुरुषाश्च केषाञ्चित् पद्मकेसरः // 15 ] इति / अमरेणापि ___ पुन्नागे पुरुषस्तुङ्गः केसरो देववल्लभः // [का० 2 वर्ग 4 श्लो० 25] इति / एतस्य लोके 'पुन्नाग' इति प्रसिद्धिः / अगस्त्ये तु बहुसेनः शुकनाशो मुनिद्रुमः // 28 // 20 अगं स्तम्नाति अगस्त्यः , "अग-पुलाभ्यां स्तम्भेर्डित्" हैमोणादिसू० 363] इति डिद् यः, तत्र / बह्वयः सेना अस्य बहुसेनः / शुकं नाशयति शुकनाशः; शुकस्य नाशोऽस्मादिति वा / मुनीनां द्रुमो मुनिद्रुमः / आह च - अगत्याह्नो बङ्ग(!बहु)सेनो मधु शिग्रुर्मुनिद्रुमः / ___] इति / 225 एतस्य लोके 'अगथियउ' इति प्रसिद्धिः // 28 // करवोरे कणवीरः श्वेतपुष्पोऽश्वमारकः / प्रतिहासः शतप्रासोऽश्वरोहः कुमुदोद्भवः // 29 // 1 अथागस्त्ये बङ्गसेनः नि० // 2 °रोधः कु नि• //
SR No.032753
Book TitleNighantu Shesh
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages414
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy