________________ 27] प्रथमो घृक्षकाण्डः / एतस्य लोके 'रतांजणी' इति प्रसिद्धिः / कुचन्दने तु पत्राङ्गं पतङ्गं पट्टरञ्जनम् // 25 // सुरङ्गकं रक्तकाष्ठं पत्तूरं तिलपर्णिका / को चन्दनं कुचन्दनम्, तत्र / पत्रेष्वङ्गति पत्राङ्गम् / पतति-याति रङ्गोऽस्य पतङ्गः, “पति-तमि-" [ हैमोणादिसू० 98 ] इत्यङ्गः / “अपभ्रंशोऽयम्" 5 इत्येके / पट्टस्य रञ्जनं पट्टरञ्जनम् // 25 // शोभनो रङ्गोऽस्येति सुरङ्गम्, के सुरङ्गकम् / सुरक्तकमित्यपि / रक्तं च तत् काष्ठं च रक्तकाष्ठम् / “पत्ल गतौ” पत्यते पत्तुरम् , “सिन्दूर-कर्चुर-पत्तूर-धत्तुरादयः" हैमोणादिसू० 430 ] इत्यूरे निपात्यते / तिलस्येव पर्णान्यस्यास्तिलपर्णी, सैव तिलपर्णिका / "तिलपर्णी नदी आकरो अस्या अस्ति" इत्यपरे ऊचिरे / 10 आह च कुचन्दनं पतङ्गं च रक्तकाष्ठं सुरक्तकम् / पत्तूरं पट्टरागं च पट्टरञ्जनमेव च // ] इति / अमरोऽप्याह -- तिलपर्णी तु पत्राङ्गं रञ्जनं रक्तचन्दनम् / कुचन्दनं च [ का० 2 वर्ग 6 श्लो० 132 ] इति / पत्राङ्गनामानि / लोके तु 'पतंग' इति प्रसिद्भिः / सर्वे एते चन्दनविशेषाः / यदवादि - सर्वाण्येतानि तुल्यानि रसतो वीर्यतोऽपि च / गन्धेन च विशेषः स्यात् पूर्व श्रेष्ठतमं गुणैः // [ ] इति / अथ द्रुमोत्पले व्याधः परिव्याधः सुगन्धिकः // 26 // द्रुमजानि उत्पलानीव पुष्पाण्यस्य मोत्पलः, तत्र / "व्यधंच ताडने" विध्यते अम्भसा व्याधः, परिविध्यते परिव्याधः / उभयत्र "तन्-व्यधी-" [सिद्ध 05.1. 25 64] इति णः / शोभनो गन्धोऽस्त्यस्य सुगन्धिकः, “अतोऽनेकस्वरात्" [सिद्ध 0 7.2.6] इति कः / एतस्य लोके 'कणयर' इति प्रसिद्भिः // 26 // निर्गन्धेऽस्मिन् कर्णिकारो निषीधः पीतपुष्पकः / 15