________________ 16] 10 सटीके निघण्टुशेष [श्लो० २४सारं गन्धसारम्, पुं क्लीबलिङ्गः / भद्रा श्रीरस्य भद्रश्रीः / तैलपर्णिको गिरिः आकरोऽस्त्यस्य तैलपर्णिकम्, पुं-क्लीबलिङ्गः / फलकम्-इष्टसिद्धिरावरणं वा, तदस्यास्तीति फलकी, "प्रेक्षादेरिन्” [सिद्ध 0 6.2.80] इतीन् / सुरभिः गन्धात्वात् रभुङ् शब्दे" सुष्ठु रम्भते सुरभिरिति वा, “पदि-पठि-" हैमोणादिसू० 6 07] इति बहुवचनादिः, 5 'आगमशासनमनित्यम्” इति [ “रभोऽपरोक्षा-शवि” सिद्ध. 4. 4. 102 इति ] नागमामावः / सारं गन्धसारत्वात्, पदैकदेशे पदसमुदायोपचारात्, यथा-"सेनो भीमसेनः, भामा सत्यभामा" इति न्यायात् / महच्च तदहं च महार्हम् / रोहणाचले उद्भवः-उत्पत्तिर्यस्य तदिति रोहणोद्भवम्, अत एव रोहणद्रुमः / आह च चन्दनं गन्धसारं च महार्ह श्वेतचन्दनम् / भद्रश्रीकं मलयजं गौशीर्ष तैलपर्णिकम् // ] इति / एतस्य लोके 'चन्दन' इति प्रसिद्धिः // 23 // अथ बर्बरके श्वेतं निर्गन्धं बर्बरोद्भवम् / "बर्ब गतौ” बबति बबरम्, “ऋच्छि-चटि-' हैमोणादिसू० 397] इत्यरः, 15 बर्बरदेशोत्पन्नत्वाद्वा, स्वार्थिके के बर्बरकम्, तत्र / श्वेतं धवलत्वात् / निर्गतो गन्धो. ऽस्मात् तदिति निर्गन्धम् / बर्बरदेशे उद्भवः-उत्पत्तियस्य तद् बर्बरोद्भवम्, चन्दन विशेषोऽयम् / लोके तु एतस्य 'बाबरउ' इति प्रसिद्धिः / स्याद् रक्तचन्दने क्षुद्रचन्दनं भास्करप्रियम् // 24 // ताम्रसारं रक्तसारं लोहितं हरिचन्दनम् / 10 रक्तं च तच्चन्दनं च रक्तचन्दनम्, तत्र / क्षुदं च तत् चन्दनं च क्षुद्रचन्दनम् / भास्करस्य प्रियं भास्करप्रियम् // 24 // तानेषु-अरुणेषु सारं ताम्रसारम् / रक्तेषु सारं रक्तसारम् / 'रुहं जन्मनि" लत्वे रोहति लोहितम्, “ह-श्या-रुहि-" [ हैमोणादिसू० 210 ] इतीतः, रक्त त्वीद्वा / हरेः-इन्द्रस्य चन्दनं हरिचन्दनम्, पुं-क्लीबलिङ्गः; हरि-कपिलं वा, तच्चाति25 शीतं पीतं चाहुः / आह च रक्तचन्दनमप्यन्यल्लोहितं हरिचन्दनम् / रक्तसारं ताम्रसारं निर्दिशेत् क्षुद्रचन्दनम् // ] इति /