SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ [15 23] प्रथमो वृक्षकाण्डः। अगरुः प्रवरं लोहं कृमिजग्धमनार्यजम् / कृष्णागरुः स्यादगुरुजौङ्गक विश्वरूपकम् // ] इति / एतस्य लोके 'अगर' इति प्रसिद्धिः // 21 // __ मल्लिगन्धेऽत्र मङ्गल्या मल्ल्याः -मल्लिकाकुसुमस्य गन्धो यत्र तद् मल्लिगन्धम्, तत्र मल्लिगन्धे 'अत्र' इति अगरौ मङ्गले साधुर्मङ्गल्या, “तत्र साधौ” [ सिद्ध 07.1.15 ] इति यः, मल्लिकापुष्पगन्धि अगुरु मङ्गल्याख्यमाख्यायत इत्यर्थः / यदमरः[कालागुर्व]गुरु स्यात् तु मङ्गल्या मल्लिगन्धि यत् / [का० 2 वर्ग 6 श्लो० 127] इति / __ कृष्णे तु काकतुण्डकः। 'तुः' पुनरर्थे / कृष्णे अगरौ काकस्य तुण्ड इव काकतुण्डः, कृष्णत्वात्, स्वार्थिके के काकतुण्डकः / एतस्य लोके 'कृष्णागरु' इति प्रसिद्धिः / श्रीखण्डे स्यान्मलयजं चन्दनं श्वेतचन्दनम् // 22 // गोशीर्षकं गन्धसारं भद्रश्रीस्तैलपर्णिकम् / फलकी सुरभिः सारं महाहं रोहणोद्भवम् // 23 // श्रिया-सौगन्ध्यलक्षणया खण्डयत्यन्यगन्धमिति श्रीखण्डम्, तत्र / मलयाद्रेर्जातं मलयजम्, " क्वचित् " [ सिद्ध 05.1.171 ] इति डः, पुं-क्लीवलिङ्गः / चन्द्यतेहाद्यते अनेन चन्दनम्, “य्वसि-रसि-" हैमोगादिसू० 269] इत्यनः; चन्दतिआह्लादयति दीप्यते वा चन्दनम्, रम्यादित्वादनट, पुं-क्लीबलिङ्गः / श्वेतं च तत् 20 चन्दनं च श्वेतचन्दनम् // 22 // " गोशी! गिरिराकरोऽस्त्यस्य गोशीर्षम्, अभ्रादित्वादः, गोशीर्षगिरिभवत्वात्, स्वार्थिके के गोशीर्षकम्" [ ] इति क्षीरस्वामी / गोशीर्ष गिरौ भवं गौशीर्षम्, " भवे" [ सिद्ध 06.3.123] इत्यण, क्लीबलिङ्गः / यद् गौडः-"गौशीर्ष तैलपर्णिकम् " [ ] इति क्लीबमाह / 25 अमरस्तु " तैलपणिक-गौशी| " [ का० 2 वर्ग 6 श्लो०१३१ ] इति पुंस्याह / अण्प्रत्यये वृद्धिः मत्वर्थीये अप्रत्यये वृद्धेरभावः, एवं शब्दभेदो ज्ञेयः / गन्धेन , “तैलपणिक-गोशीर्षे” इति क्लीबलिङ्गद्योतकोऽपि पाठो मुद्रितेऽमरकोशे दृश्यते //
SR No.032753
Book TitleNighantu Shesh
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages414
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy