________________ सटीके निघण्टुशेषे [प्रलो० २०आह च पाटलोक्ता तु कुम्भीका ताम्रपुष्पाऽम्बुवासिनी / .. स्थाली वसन्तदूती स्यादमोघा कालवृन्तिका // ] इति / एतस्या लोके पाडला' इति प्रसिद्धिः // 19 // अन्यस्यां तत्र तु श्वेतपाटला काष्ठपाटला / शीतला श्वेतकुम्भीका कुबेराक्षी फलेरुहा // 20 // 'तुः' अत्र विशेषे / श्वेता पाटला श्वेतपाटला / काष्ठोपलक्षिता पाटला ____ काष्ठपाटला / शीतमस्त्यस्याः शीतला, सिध्मादित्वाद् लः; शेते वा “शीङस्तलक्-" 10 [हैमोणादिसू० 501] इति तलक् प्रत्ययः / श्वेता चासौ कुम्भीका च श्वेतकुम्भीका / कुबेराक्षी यक्षाक्षितुल्यफलत्वात् / फले रोहति फलेरुहा, साङ्कुरफलत्वात्, “नाम्युपान्त्य-" [सिद्ध 0 5.1.54] इति कः सप्तम्यलोपश्च / यदाह द्वितीया पाटला श्वेता निर्दिष्टा काष्ठपाटला / सा चैव श्वेतकुम्भी स्यात् कुबेराक्षी फलेरुहा // 15 पाटली कृष्णवृन्ता / ] इति / श्वेतपाटलानामानि // 20 // अगरावगुरुर्लोहं वंशिका विश्वरूपकम् / कृमिजं प्रवरं राजाहं जोङ्गकमनार्यजम् // 21 // "अग कुटिलायां गतौ” अगत्यनेन अगरुः, “कटि-कुट्यर्ते-" हैमोणादिसू० 20 812] इत्युपलक्षणादरुः प्रत्ययः; अगं रुणद्धीति वा पृषोदरादित्वात् साधुः, पुं-क्ली बलिङ्गः, तत्र / न गुरुः अगुरुः, पुं-क्लीबलिङ्गः / “रुहं जन्मनि" रोहति लोहम्, र-लयोरक्याल्लत्वम्, पुं-नपुंसकः / वंशोऽस्या अस्ति वंशिका, “अतोऽनेकस्वरात्" [सिद्ध 07.2.6] इति कः, स्त्री-क्लीबलिङ्गः / “वंशाभं वंशकम्" इत्यमरटीका, "तस्य तुल्ये कः संज्ञा-प्रतिकृत्योः" [सिद्ध 07.1.108] इति कः। विश्वं रूपयति 25 विश्वरूपकम्, पुं-क्लीबलिङ्गः / कृमिभिर्जन्यते कृमिजम्, “कचित्" [सिद्ध 05.1 171] इति डः / कृमिजग्धमित्यपि / प्रवियते प्रवरम्, “युवर्ग-" [सिद्ध 05. 3.28] इत्यल्प्रत्ययः / राज्ञोऽहं राजाहम् / जोङ्गके गिरौ भवं जौङ्गकम्, “भवे" [सिद्ध 06.3.123] इत्यग्प्रत्ययः / अनार्यदेशे जातमनायजम्, “कचित्" [सिद्ध 0 5.1.171] इति डः / आह च