SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ 19] प्रथमो वृक्षकाण्डः / [13 शुकस्य वृक्षः शुकवक्षः / शुकस्य प्रियः शुकप्रियः / कपी तनोति कपीतनः, कपिप्रियत्वात् , लिहादित्वादच्; कम्पते वा “विदन-गगन-" [हैमोणादिसू०२७५ ] इत्यने निपात्यते / कर्गों पूरयति कर्णपूरः / भण्ड्यते भण्डिलः, “भण्डेर्न लुक् च वा " [ हैमोगादिसू० 482 ] इति इलः प्रत्ययः / श्यामं वल्कलं-तरुत्वम् यस्येति श्यामवल्कलः / आह च शिरीषो मृदुपुष्पश्च भण्डीरः शङ्खिनीफलः / कपीतनः शुकतरुः श्यामवल्कः शुकप्रियः // __] इति / एतस्य लोके 'सिरीसु' इति प्रसिद्धिः // 18 // पाटल्यां पाटला स्थाल्यमोघा तोयाधिवासिनी। 10 वसन्त-कामयोदूती कुम्भिका कालवृन्तिका // 19 // - "पट गतौ" ण्यन्तः, पाटयति दौर्गन्ध्यं] पाटलिः, “पाट्यञ्जिभ्यामलिः" [हैमोणादिसू० 702] इत्यलिः, पुं-स्त्रीलिङ्गः, तस्याम् / “मृदि-कन्दि-" [हैमोणादिसू० 465] इत्यले पाटला, ताम्रपुष्पत्वाद्वा / स्थालीव स्थाली, रसाधारत्वात् ; “ठल स्थाने" स्थलति वा स्थाली, “वा ज्वलादि-" [सिद्ध 05.1.62] इति णः / काचस्थालीत्येके / 15 न मोघा अमोघा, बहुफलत्वात् / तोये अधिवसत्यवश्यं तोयाधिवासिनी, “णिन् चाऽऽवश्यका-" [सिद्ध 05.4.36] इति णिन् / वसन्त-कामशब्दयोतीति योज्यते, ततो वसन्तस्य कामस्य च दूतीव वसन्तदूती कामदूती / कुम्भ्याः-स्थाल्याः प्रतिकृतिः कुम्भीका, रसाधारत्वादिति; कायति कुम्भी, “का-कुसिभ्यां कुम्भः'[हैमोणादिसू० 337] इति किदुम्भः, गौरादित्वाद् ङीः, स्वार्थिके के “ड्यादीदूतः के" [ सिद्ध 0 3 // 2.4.104] इति हवे च कुम्भिकेति भवति / कालं वृन्तमस्याः कालवृन्ता. स्वार्थिक के कालन्तिका, अत एव कालेत्यस्या आख्या / यदाह ___ अथ द्वयोः / पाटलिः पाटलाऽमोधा काला स्थाली फलेरुहा // कृष्णवृन्ता कुबेराक्षी [अमर०का 02 वर्ग४ श्लो०५४.५५] इति / 25 1 स्थाली मोघा नि० / “मोघा स्त्री पाटला क्षे, मोघं त्रिषु निरर्थके // इति रुद्राद् मोघाऽपि" इति अमरकोशव्याख्यासुधायां का०२ वर्ग 4 श्लो०५४ // 2 'एके' इति व्याख्यासुधाकारादयः //
SR No.032753
Book TitleNighantu Shesh
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages414
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy