SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ 11] सटीके निघण्टुशेषे [लो० १८यव इव फलमस्य यवफलः / दीप्तं भद्रमस्या दीप्तभद्रा / उडूनां मल्लिकेव उडुमल्लिका / आह च कुटजः कोटजः कोही वत्सको गिरिमल्लिका / . कलिङ्गो मल्लिकापुष्प इन्द्रवृक्षोऽथ वृक्षकः // [ ] इति / एतस्य लोके 'कुडउ' इति प्रसिद्धिः // 16 // फलं तु तस्येन्द्रयवं, बीजं भद्रयवाहवयम् / 'तस्य' कुटजस्य फलं इन्द्रस्य यवम् इन्द्रयवम् / भद्रं यवं भद्रा यवा यस्य तदिति वा भद्रयवं बीजं कथ्यते / इन्द्रयवं कुटजफलम् , भद्रयवं तु कुटज10 बीजमित्यर्थः / यदाहफलानि तस्येन्द्रयवाः, बीजं भद्रयवास्तथा / .] इति / तथा फलानि तस्येन्द्रयवाः शक्राह्वाः शक्रलिङ्गकाः / अथ वत्सकबीजानि प्रोक्ता भद्रयवास्तथा // ] इति / एतयोर्लोके 'इन्द्रयव, कुटजबीज' इति प्रसिद्धिः / शिरीषे विषहा भण्डी भण्डीरः शखिनीफलः // 17 // मूदुपुष्पः शुकपुष्पः शुकवृक्षः शुकप्रियः / / 20 कपीतनः कर्णपूरो भण्डिलः श्यामवल्कलः // 18 // शिरसि इष्यते शिरीषः, पृषोदरादित्वात् साधुः; “शृश् हिंसायाम्" शीर्यते वा सौकुमार्यात् शिरीषः, “ऋ-जि-श-पृभ्यः कित्" [ हैमोणादिसू० 554 ] इति किदीषः, तत्र / विषं हन्ति विषहा, विप् / “भडुङ् परिभाषणे, भण्डते भण्डी' इत्येके पेटुः" इति क्षीरस्वामी / भण्ड्यते भण्डीरः, "जम्बीरा-ऽऽभीर-" 25 [ हैमोगादिसू० 422 ] इति ईरे निपात्यते / शजिन्याः फलमिव फलमस्य शविनीफलः, "उष्ट्रमुखादयः” [सिद्ध 03.1.23 ] इति समासः // 17 // मृदूनि पुष्पाण्यस्य मृदुपुष्पः / शुकस्य पुष्पः शुकपुष्पः / पुष्पशब्दः पुं-क्लीबलिङ्गः / यदुवाच वाचस्पतिः- “पुष्पोऽस्त्री" [ ] इति /
SR No.032753
Book TitleNighantu Shesh
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages414
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy