SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ 16] प्रथमो वृक्षकाण्डः / [11 नयति सुखं नीपः, " नियो वा" [हैमोणादिसू० 302 ] इति कित् पः विषं धूर्तः, “शी-री-' [हैमोणादिसू० 201] इति कित् तः / नर्तयतीव नर्तः। शीतलत्वाद् धुनोति शोफरोग धूवारकः, “मवाक श्यामाक-" [हैमोणादिसू० 37] इत्याके निपात्यते / शिवः उपद्रवापहारित्वात्; शेते अस्मिन् अनेन वा शिवः, " शीडापो 5 हस्वश्च वा” [ हैमोणादिसू० 506 ] इति वः // 14 // महांश्चासौ कदम्बश्च महाकदम्बः / प्रीणाति प्रियकः, " कीचक-पेचक-" [हैमोगादिसू० 33 ] इत्यके निपात्यते / घण्टाकाराणि पुष्पाण्यस्य घण्टापुष्पः / शोभनानि पुष्पाण्यस्य सुपुष्पः , स्वार्थिके के सुपुष्पकः / सामान्यतो विशेषतश्च सर्वाण्येतानि कदम्बनामानि / लोके तु 'कयंब' इति प्रेसिद्धिः / 10 कुटजे कोटजः कोही वत्सको गिरिमल्लिका // 15 // वृक्षको मल्लिकापुष्पः कलिङ्गः पाण्डुरद्रुमः / इन्द्रवृक्षो यवफलो दीप्तभद्रोडुमल्लिका // 16 // " कुटत् कौटिल्ये" कुटति कुटजः, " कुटेरजः " [हैमोणादिसू० 130 ] इत्यजः, कुटादित्वाद् गुणाभावः , तत्र / बाहुलकाद् गुणे च कोटजः / “कुहि 15 विस्मापने" कोहते अवश्यं कोही, “णिन् चावश्यका-" [ सिद्ध० 5.4.36 ] इति णिन् / “वस्ते त्वचं वत्सकः” इति क्षीरस्वामी, " कीचक-पेचक -" [हैमोणादिसू० 33 ] इत्यके निपात्यते / गिरिणा मल्ल्यते-धार्यते गिरिमल्लिका; गिरौ मल्लिकेव वा // 15 // __वृक्षते-वृणोति वृक्षकः, “णक-तृचौ” [ सिद्ध० 5.1.48 ] इति णकः; 30 वृश्च्यते-छिद्यते वृक्षः, “ऋजि-रिषि-" हैमोणादिसू० 567] इति कित् सः, स्वार्थिके के वृक्षकः इति वा / मल्लिकाया इव पुष्पाण्यस्य मल्लिकापुष्पः / कलिङ्गायति कलिङ्गः, पृषोदरादित्वात् साधुः; “कलि शब्द-संख्यानयोः" कल्यते कलिङ्ग इति वा, “स्फुलि-कलि-पल्याद्भय इङ्ग" [ हैमोणादिसू० 102 ] इतीङ्गक्; कलिङ्गदेशजो वा [कालिङ्गः], अत एव कालिङ्ग कालिङ्गी च / पाण्डुरो 25 द्रुमः पाण्डुरद्रुमः / इन्द्रस्य वृक्षः इन्द्रवृक्षः, अत एव शक्र इत्यस्याऽऽख्या / यदमर:--- . . अथ कुटजः शक्रो वत्सको गिरिमल्लिका / [ का 02 वर्ग 4 श्लोक 66 ] इति / 1. प्रसिद्धः पु२ //
SR No.032753
Book TitleNighantu Shesh
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages414
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy