________________ 10] सटीके निघण्टुशेषे [श्लो०१२कदम्बे स्यात् पीतदारुः प्रावृषेण्यो हलिप्रियः // 12 // हारिद्रकः कादम्बर्यः पुलकी पर्वताहवयः / "कद वैक्लव्ये " सौत्रः, कद्यते कदम्बः, “कदेर्णिद्वा"[ हैमोणादिसू० 322] इत्यम्बः; "अबुङ् शब्दे " कुत्सितमम्बते वा कदम्बः, तत्र / पीतवर्णो दारुरस्य 5 पीतदारुः, पुं-क्लीबलिङ्गः / प्रावृषि भवः प्रादृषेण्यः, “प्रावृष एण्यः” [सिद्ध० 6.3. 92 ] इति एण्यः / हलिनः प्रियो हलिप्रियः, सुराधिवासनात् // 12 // हरिद्राया अयं हारिद्रः, "तस्येदम्” [सिद्ध 0 6.3.160] इत्यण, स्वार्थिके के हारिद्रकः / कादम्बयाँ-मदिरायां साधुः कादम्बयः, “तत्र साधौ” [सिद्ध 07. 1.15] इति यः; कादम्बर्यै हितो वा, "तस्मै हिते" [सिद्ध 07.1.35] इति 10 हितेऽर्थे यः / पुलक:-रोमाञ्चोऽस्त्यस्य पुलकी / पर्वतस्य आह्वयोऽस्य पर्वताहयः / एतस्य लोके 'कयंब' इति प्रेसिद्भिः / अथास्य विशेषाः धूलीकदम्बे त्वम्बष्ठः सुवासो वृत्तपुष्पकः // 13 // ___धूल्याः कदम्बः धुलीकदम्बः, तत्र / 'तुः' इति अत्र विशेषद्योतकः / “अम गतौ भजने शब्दे च" अमति अम्बष्ठः, “पष्ठैधिठादयः" हैमोणादिसू० 166] इति ठे 15 निपात्यते ; अम्बायां तिष्ठतीति वा, “स्था-पा-स्ना-त्रः कः" [सिद्ध०५.१.१४२] इति कः, “गो-ऽम्बा-ऽऽम्ब-' [सिद्ध०२.३.३०] इति स्थशब्दसम्बन्धिनः सकारस्य षत्वम्, "ड्यापो बहुलं नाम्नि" [सिद्ध 02.4.99] इति हस्वश्च / शोभनो वासः-प्रतिवासोऽस्य सुवासः। वृत्तं वर्तुं पुष्पमस्य वृत्तपुष्पः, स्वार्थिके के वृत्तपुष्पकः / यदाहधूलीकदम्बोऽन्यः सुवासो वृत्तपुष्पकः / ] इति // 13 // धाराकदम्बे त्वरणिर्विश्वरूप-महौजसौ / [धारोपलक्षितः-मेघधारोपलक्षितः कदम्बः धाराकदम्बः, तत्र / ] "ऋक् गतौ” इयर्ति अरणिः, "ऋ-ह-सृ-" [ हैमोणादिसू० 638] इत्यादिना अणिः प्रत्ययः / विश्वे-जगति रूपमस्य विश्वरूपः / महद् ओजः-बलमस्य अस्माद् वा महौजाः / 25 नीपे तु दीपनो धूर्तो नत्ततॊ धूवारकः शिवः // 14 // महाकदम्बः प्रियको घण्टापुष्प-सुपुष्पकौ / 1. प्रसिद्धः पु२ //