________________ 8] सटीके निघण्टुशेषे [ श्लो०९कनति–दीप्यते कोविदारः, “कनेः कोविद-" [ हैमोणादिसू० 410] इत्यारः प्रत्ययो धातोश्च कोविदेत्यादेशः ; कुं-भूमिं विदारयतीति वा, पृषोदरादित्वात् , तत्र / भद्रं दारु अस्य भद्रदारुः / “कनै दीप्ति-कान्ति-गतिषु" कनति काश्चनारः, "कनेः कोविद-कर्बुद-काञ्चनादयश्च" [हैमोणादिसू० 410 ] इति आरः प्रत्ययो 5 धातोश्च काञ्चनेत्यादेशः / युगरूपं छदं-पत्रमस्य युगच्छदः // 7 // ताम्राणि पुष्पाण्यस्य ताम्रपुष्पः। चमरोऽस्यास्ति चमरिकः, “अतोऽनेकस्वरात्" [ सिद्ध० 7.2.6 ] इति कः / कुं-भूमिं दालयति कुद्दालः, पृषोदरादित्वात् / कुण्डलमस्त्यस्य कुण्डली, “शिखादिभ्य इन्” [ सिद्ध 0 7.2.4 ] इतीन् / कुलमस्या स्तीति कुली / काम्यते काञ्चनः, “विदन-गगन-" [ हैमोणादिसू० 275] इत्यने 10 निपात्यते / मालुका-वनस्पतिविशेषस्तस्या इव पर्णान्यस्य मालुकापर्णः / कुं-पृथ्वी दारयति कुदारः / स्वल्पाः केसरा अस्य स्वल्पकेसरः / आह च कोविदारे च कुद्दालः कुदारः कुण्डली कुली। ताम्रपुष्पश्चमरिको महायमलपत्रकः // [ ] इति / यमलपत्रकः पर्यायेणोक्तः / एतस्य ‘कांचणयरु' इति लोकप्रसिद्धिः // 8 // चम्पके काञ्चनो हेमपुष्पकः षट्पदातिथिः / कुसुमेन्द्रो वरलब्धः कुमारीवल्लभश्चलः // 9 // चाम्पेयः कुसुमारोग्यः कलिकागन्धफल्यपि / चम्यते-अद्यते भृङ्गैश्चम्पकः, “कीचक-'' [हैमोणादिसू० 33 ] इत्यके निपात्यते, 20 चाम्पकोऽपि, तत्र / काम्यते काञ्चनः, “विदन-गगन-" [ हैमोणादिसू० 275] इत्यने निपात्यते, पुल्लिङ्गः / हेमवर्ग पुष्पमस्य हेमपुष्पः, स्वार्थिके के हेमपुष्पकः / षट्पदाः-भ्रमरा एव अतिथयोऽस्य षट्पदातिथिः; षट्पदानामतिथिरिव वा / कुसुमेषु-पुष्पेषु इन्द्र इव इन्द्रः कुसुमेन्द्रः। वरैः-श्रेष्ठैर्लब्धः-प्राप्तो वरलब्धः / कुमारीणां वल्लभः कुमारीवल्लभः / चलति चलः // 9 // 25 चम्पादेशे भवश्वाम्पेयः, "भवे" [ सिद्ध० 6.3.123 ] इत्येयण् प्रत्ययः; "चप् सान्त्वने" चप्यते इति वा, “गय-हृदयादयः" [ हैमोणादिसू० 370 ] इत्यये निपात्यते / कुसुमेषु आरोग्यमस्य कुसुमारोग्यः / कलिकागन्धानि फलान्यस्त्य( ? नि सन्त्य )स्य कलिकागन्धफली / आह च - 15