________________ 8] प्रथमो वृक्षकाण्डः। एतस्य लोके 'बैउल' इति प्रसिद्धिः / फलमस्य तु पर्पटम् / 'तुः' पुनरर्थे / 'अस्य' बकुलस्य फलं पृणाति पर्पटम्, “कपट-कीकटादयः" [ हैमोणादिसू० 144 ] इत्यटे साधुः / तिलके पूर्णकश्छन्नकुसुमो मुखमण्डनः // 6 // चित्रकः क्षुरको रेची स्त्रीनिरीक्षणदोहदः / तिलति- स्निह्यति तिलकः, "धू-धून्दि-" [ हैमोगादिसू० 29 ] इति किदकः; "तिलाभपुष्पस्तिलकः" इति क्षीरस्वामी, तत्र / पूर्यते स्म पूर्णः, स्वार्थिके के पूर्णकः। छन्नानि–गुप्तानि कुसुमान्यस्य छन्नकुसुमः। मुखं मण्डयति मुखमण्डनः, नन्द्यादित्वादनः // 6 // 10 "चिंग्ट् चयने” चीयते चित्रः, “चि-मिदि-शंसिभ्यः कित्" हैमोणादिसू० 454] इति कित् त्रः प्रत्ययः, चित्र एव चित्रकः, स्वार्थिकः कः / क्षुरति-विलिखति क्षुरकः; क्षुरस्य तुल्यः क्षुरक इति वा परुषत्वात्, "तस्य तुल्ये कः संज्ञा-प्रतिकृत्योः" [ सिद्ध० 7.1.108 ] इति कः / “रिचण् विरेचने च" चकारात् सम्पर्चने, रेचयत्यवश्यं रेची, "आवश्यके णिन्" ( “णिन् 15 चाऽऽवश्यका-ऽऽधमर्ये" सिद्ध० 5.4.36) इति गिन् / स्त्रीनिरीक्षणे दोहदोऽस्य स्त्रीनिरीक्षणदोहदः / आह च तिलकः पूर्णकः श्रीमान् क्षुरकः शतपुष्पकः / मुखमण्डनको रेची विटश्चित्रो विशेषकः // ] इति / तिलकः परुषः श्रीमान् क्षुरकश्छैन्नपुष्पकः / [ ] इत्यपरः / एतस्य लोके 'तिलकु' इति प्रसिद्धिः / कोविदारे भद्रदारुः काञ्चनारो युगच्छदः // 7 // ताम्रपुष्पश्चमरिकः कुद्दालः कुण्डली कुली / काञ्चनो मालुकापर्णः कुदारः स्वल्पकेसरः // 8 // . 1. "बकुल' पु२॥ 2. °न्नपत्रकः पु२ // 20 25