________________ सटीके निघण्टुशेषे [ श्लो० ५कामिनीभुजलतावगृहन-पाणिप्रहार-कटाक्षविक्षेपादिभ्यः प्रसून-पल्लवादिप्रसवदर्शनादेतस्य मैथुनसंज्ञेति जैनाः // 3 // हेमवर्णानि पुष्पाण्यस्य हेमपुष्पः / कर्णौ पूरयति कर्णपूरः / कं-उदकं केलति-गच्छति कड्केल्लिः, स्त्रीलिङ्गः / यदमरशेषः- “स्त्रियां त्वशोके ककेल्लिः" 5 [ ] पृषोदरादित्वात् साधुः / मधु-वसन्तं मण्डयति मधुमण्डनः / पिण्डाकाराणि पुष्पाण्यस्य पिण्डपुष्पः / लताकारो वृक्षो लतावृक्षः; लता चासौ वृक्षश्चेति वा लताक्षः / पौलोम्याः रोहिण्याश्च द्रुमः पौलोमीद्रुमः रोहिणीटुमः / आह च -- अशोकः शोकनाशश्च विचित्रः कर्णपूरकः / . विशोको रक्तको रागी चित्रः स्तबकमञ्जरी // कङ्केल्लिहेमपुष्पश्च पिण्डपुष्पो लतातरुः / ] इति / एतस्य लोके 'अशोक' इति प्रसिद्धिः // 4 // बकुले मदिरागन्धः कृष्णत्वग् मद्यदोहदः / विशारदो गुडपुष्पः “वकुङ् कौटिल्ये” वङ्कयते पुष्पैर्वकुलः, “स्था-वङ्कि-" [हैमोणादिसू० 486 ] इति उलो न लुक् च ; "उच्यते वकुलः” इति क्षीरस्वामी, पृषोदरादित्वात् साधुः, “कुमुल-तुमुल-" [ हैमोणादिसू० 487 ] इत्युले वा निपात्यते, तत्र / मदिरावद् गन्धोऽस्य मदिरागन्धः / कृष्णा त्वक् छल्ली यस्य स कृष्णत्वक् / 20 मद्यस्य दोहदोऽस्य मद्यदोहदः / द्राक्षाकाराणि द्राक्षावन्मृष्टानि वा फलान्यस्य द्राक्षाफलः / गूढानि-गुप्तानि पुष्पाण्यस्य गृढपुष्पः / केसराः सन्त्यस्य केसरः, अभ्रादित्वादः / “के–जले सरति केसरः" इत्यपरे / सिंहस्य केसरा इव केसरा अस्य सिंहकेसरः, “उष्ट्रमुखादयः" [ सिद्ध० 3.1.23 ] इत्यनेन समासः // 5 // विशेषेण शरदि भवो विशारदः, “भर्तु-सन्ध्यादेरण" [ सिद्ध 0 6.3.89 ] 25 इत्यण् / गुडवद् मृष्टानि पुष्पाण्यस्य गुडपुष्पः / आह च बकुल: शीधुगन्धश्च मद्यगन्धो विशारदः / . मधुगन्धो गूढपुष्पः शिवकेसरकस्तथा // [ ] इति / 1. शिवाके पु॥