________________ 4] प्रथमो वृक्षकाण्डः। समुच्चया येन स विहितैकार्थ-नानार्थ-देश्यशब्दसमुच्चयः / एतेनेदं ज्ञापितं भवतिपूर्वमपूर्वाभिधानचिन्तामणि-शेषसङ्ग्रह-देशीशब्दसङ्ग्रहान् विधायाथ निघण्टुशेष करोमीत्यर्थः / इति प्रथमपद्यार्थः // 1 // वृक्ष-गुल्म-लता-शाक-तृण-धान्यक्रमादिह / / षट् काण्डानि प्रवक्ष्यन्ते सप्तम्युद्देशपूर्वकम् // 2 // व्याख्या- 'इह' इति निघण्टुशेषे 'षट् काण्डानि' षट् सर्गाः ‘प्रवक्ष्यन्ते' प्रतिपादयिष्यन्ते / कथम् ? 'सप्तम्युद्देशपूर्वकं' सप्तम्या-विभक्तिविशेषेण उद्देश:-कथनं सप्तम्युद्देशः, स पूर्वो यस्य तत् सप्तम्युद्देशपूर्वकम्, एवं यथा भवति तथा / कस्मात् ? . इत्याह- 'वृक्ष-गुल्म-लता-शाक-तृण-धान्यक्रमात्' वृक्षाश्च प्रतीताः गुल्माश्च सिन्दुवाराद्याः लताश्च गुञ्जाद्याः शाकाश्च शतपुष्पमुख्याः तृणाश्च रौहिषप्रमुखाः 10 धान्यानि च पाटलादीनि वृक्ष-गुल्म-लता-शाक-तृण-धान्यानि, तेषां वाचकाः शब्दा . अपि वृक्ष-गुल्म-लता-शाक-तृण-धान्यानि, वाच्य-वाचकयोरभेदोपचारात् ; तेषां क्रमःपरिपाटी तस्मात् तथा। एतावता वृक्षकाण्डं गुल्मकाण्डमित्यायुक्तं भवतीति द्वितीयपद्यार्थः // 2 // अशोके स्त्रीप्रियः शोकनाशनः स्यन्दनोऽलसः।। 15 वचुलो मदनावासः स्त्रीपादाहतिदोहदः // 3 // हेमपुष्पः कर्णपूरः कङ्केल्लिमधुमण्डनः / पिण्डपुष्पो लतावृक्षः पौलोमी-रोहिणीद्रुमः // 4 // _ "शुं गतौ” न शवति अशोकः, “भीण्-शलि-" [ हैमोणादिसू० 21] इति कः; नास्ति शोकोऽस्मादिति वा; "अश्नुते अशोकः” इति तु क्षीरस्वामी, पृषोद- 30 रादित्वात् साधुः, तत्र / स्त्रियः प्रिया यस्य स स्त्रीप्रियः; स्त्रीणां प्रियो यः स इति वा / शोकं नाशयति शोकनाशनः / “स्यन्दौङ् स्रवणे” अन्तस्थीयोपान्त्योऽयम् , स्यन्दते स्यन्दनः, “य्वसि-रसि-" [ हैमोगादिसू० 269 ] इत्यनः / “अली भूषणपर्याप्ति-वारणेषु" अलति अलसः, “तप्यणि-" [ हैमोगादिसू० 569 ] इत्यसः; न लसति वा / “वज गतौ” वजति वजुलः, “कुमुल-तुमुल-" [ हैमोणादिसू० 35 487 ] इत्युले निपातनाद् वजेः स्वरान्नोऽन्तः” / मदनः- कन्दर्प आवसत्यस्मिन्निति मदनावासः; मदनस्य आवासः- निवसनस्थानमिति वा / स्त्रियाः पादः-चरणः स्त्रीपादस्तेन आहतिः-आहननं सैव दोहदो यस्येति स्त्रीपादाहतिदोहदः / कमनीय