________________ 4] सटीकेनि घण्टुशेषे [ श्लो०१___ तत्र 'अहं' हेमचन्द्राचार्यः 'वक्ष्ये' कथयिष्यामि / “बृंगक् व्यक्तायां वाचि" आदादिकोऽयम् उभयपदी इत्यस्य वचादेशे सिद्धम् / कम् ? 'निघण्टुशेष' “घटि क्यपि द्युतौ” इति कविकल्पद्रुमधातुपाठः, नितरां घण्ट्यन्ते- एकत्र भाष्यन्ते शब्दा अनेनेति निघण्टुः , "भृ-मृ-तृ-त्सरि-" [ हैमोणादिसू० 716 ] इति बहुवचनादुः, 5 पुल्लिङ्गः / यद् वैजयन्ती. नामशास्त्रे निघण्टुर्ना [ ] इति / व्याडिस्तु अर्थान् निघण्टयत्यस्मान्निघण्टुः परिकीर्तितः / पुं-नपुंसकयोः स स्यात् [ ] इति / 10 नवयं धातुर्युत्यर्थे उक्तो धातुपाठे तत् कथं परिभाषणार्थः ? उच्यते क्रियावाचित्वमाख्यातुं प्रसिद्धोऽर्थः प्रदर्शितः / प्रयोगतोऽन्ये ज्ञातव्याः, अनेकार्था हि धातवः // इत्युक्तत्वाद् युक्तेयं व्युत्पत्तिः / अकारान्तोऽपि निघण्टशब्दः / तदुक्तं चामुण्ड15 पण्डितेनइति वर्णनिघण्टोऽयं बीजानां वच्मि किञ्चन / [ ] इति / तदुक्तादतिरिक्तः शेषः प्रणिगद्यते / यद्वा शिनष्टि-विशिष्टकृष्टिजनानां प्राचीननिघण्ट्वप्रोक्तवनस्पतिनामसमूहेषु ज्ञानोत्पादनं करोतीति शेषः / “शिष् हिंसायाम् " .. शिष्यते-विचित्रवनस्पत्यभिधानजाइयं हिंस्यते अनेनेति वा शेषः / निघण्टो:- स्वोपज्ञ10 नामसंग्रहस्य शेषो निघण्टुशेषस्तम् / किं कृत्वा ? नत्वा, काय-वाङ्-मनोभिः प्रणम्येत्यर्थः / किम् ? 'अर्हत्पदपङ्कजम्' अर्हतां पदपङ्कजम् अर्हत्पदपङ्कजम्, तीर्थकृच्चरणकमलमित्यर्थः / किंविशिष्टोऽहम् ? 'विहितैकार्थ-नानार्थ-देश्यशब्दसमुच्चयः' एकार्थः-अभिधानचिन्तामणिनाममालालक्षणः, नानार्थः ___“ध्यात्वाऽर्हतः कृतैकार्थशब्दसन्दोहसंग्रहः / 25 एकस्वरादिषट्काण्ड्या कुर्वेऽनेकार्थसङ्ग्रहम् // " हैमाने० का. 1, श्लो. 1] इत्यादिलक्षणः, देश्यशब्दसमुच्चयः-देशीनाममाला, एषां द्वन्द्वे एकार्थनानार्थ-देश्यशब्दसमुच्चयाः, ततो विहिताः-विनिर्मिता एकार्थ-नानार्थ-देश्यशब्द१. अदा पु1 // 2. "नाममालायाम्" इति पु१ टिप्पणी // 3. विशिष्टविद्वज्जनानामित्यर्थः //