________________ प्रथमो वृक्षकाण्डः / नमस्कारः कालभूयस्त्वभाविनी शास्त्रसमाप्तिं यावत् तिष्ठेत् ? तत्प्रत्यूहसन्दोहं व्यपोहेच्च ? / नापि नित्यानित्यः, परस्परपक्षोपक्षिप्तदूषणगणावकीर्णत्वात् / तदुक्तम्प्रत्येकं यो भवेद् दोषो द्वयोर्भावे कथं न सः / [ ] इति / नापि व्यञ्जकत्वेन, तस्य तद्वयञ्जकत्वेन त्वयाऽद्याप्यप्रसाधितत्वात् / किञ्च-5 नमस्कारात् कस्य प्रत्यूहस्य व्यपोहः ? किं भूतस्य भविष्यतो वर्तमानस्य वा / न तावदाद्यविकल्पद्वयस्य, तस्याऽतीतानागततया व्यपोहितुमसमर्थत्वात् / वर्तमानस्य किं सतोऽसतो वा ? / न तावत् सतः, तस्य भोग्यत्वेनोपसेदुषः परःशताभिर्नमस्याभिर्दुरपोहत्वात् / असतस्त्वसत्त्वादेव तदपोहानुपपत्तिः / अन्यच्च-यदि नमस्कार एव प्रत्यूहव्यपोहकः स्यात् तदा प्रत्यूहसन्दोहदन्दह्यमानो जनो नमस्कारैस्तं व्यपास्य को न स्वं सुखा- 10 चेक्रियात् ? / ततो विघ्नोपशमार्थ नमस्कार इति यत्किञ्चिदेतत् / अत्र प्रतिविधीयते यदवादि 'प्रस्तुतशास्त्रकरणमवगणय्य नमस्कारकरणं किमर्थम् ?' इत्यादि तदेतत् सर्व तवाऽप्रामाणिकतामेव प्रवीणयति / न खलु प्रामाणिकीभूय कश्चिद् विपश्चिच्छास्त्रारम्भसम्भावितं नमस्कारं तिरस्कुर्वीत, शास्त्रारम्भे शास्त्रकारैस्तस्यैव प्रस्तुतत्वात् / यच्चावाचि 'किं नमस्कारादेव विघ्नोपशमः ?' इत्यादि तदप्यसूपपादम्, यतो नम- 15 स्कारादेव न वयं विघ्नोपशममभिदध्महे, किन्तु तजनितनिर्मलधर्मादेव / स चाऽभीष्टदेवताप्रणिधानाद्यनेकसविवेकव्यापारसाध्यः / अत एव यत्र कापि विघ्नोपशमस्तत्राऽवश्यं मानसप्रणिधानाद्युत्पन्नधर्मस्यैव हेतुत्वम्, कार्यवैशिष्टयगम्यत्वात् कारणवैशिष्टयस्य / यत्र तु तत्सद्भावेऽपि विघ्नसद्भावस्तत्र धर्मा-ऽधर्मयोरल्पीयस्त्व-बलीयस्त्वे हेतू, बलीयसाऽल्पीयसो घर्षणात् / एतेन नित्यानित्याद्यनल्पविकल्पजालमपि प्रति- 20 क्षिप्तमवसेयम् / यतः—क्रियारूपत्वेनानित्योऽपि नमस्कारो धर्मं विनिर्माय विनश्यति, स चाशेषविघ्नविघातनिघ्नो भवति / तथा च प्रतिपादयाञ्चकार श्रीकन्दलीकारः“स हि धर्मोत्पादकस्तिरयत्यन्तरायबीजम्" [ ] इति / व्यञ्जकपक्षस्य त्वस्वीकार एव परीहारः / यदप्याचचक्षे विचक्षणेन 'नमस्कारात् कस्य प्रत्यूहस्य व्यपोहः ?' इति, तदप्यल्पीयः, वर्तमानस्यैव तस्य धर्मेण तिरस्करणात् / 25 न च वाच्यम्-कथं वर्तमानस्तिरस्क्रियते ? इति, उद्दण्डप्रचण्डमुद्गरदण्डादिना विद्यमानस्यैव घटादेविघटनोपपत्तेः / इदमेव च धर्मस्यालङ्कर्मीणत्वम्, यदुपेतमपि प्रत्यूहव्यपोहं विधेयः, प्रमाणप्रतिष्ठितत्वात् / तथाहि -विवादाध्यस्तो नमस्कारः शास्त्रारम्भेऽवश्य विधेयः, विघ्नोपशमफलत्वात्, त्रिपुरादिमन्त्रजापवदित्यलं कुचर्चया / प्रस्तुतं प्रस्तुमः