________________ 401 षष्ठी धान्यकाण्डः। 219 शूकप्रधानं धान्यं शूकधान्यम् / यव आदिर्येषां गोधूमादीनां ते यवादयः। स्यात् सस्यशूके किंशारुः शवति शूकम् , पुं-क्लीबलिङ्गः, "घु-यु-हि-" [ हैमोणादिसू० 24 ] इति कः प्रत्ययो दीर्घत्वं च, सस्यस्य शूकं सस्यशूकम् , तत्र / कुत्सितं शृणाति किंशारुः, पुंल्लिङ्गः, “किमः श्री णित्" [ हैमोणादिसू० 725 ] इत्युः / एतस्य 5 लोके 'ऊंबी' इति प्रसिद्धिः / कणिशे सस्यशीर्षकम् // 40 // __“कण शब्दे" कणति वातेन कणिशम् , पुं-क्लीबलिङ्गः, “कुलि-कनि-कणि-" [ हैमोणादिसू 0 535] इति किद् इशः, तत्र / केनेशमपि / सस्यमयं शीर्षमिव सस्यशीर्षकम् , सस्यमञ्जरीत्यर्थः / लोके 'कणसडा' इति, 'प्रधान सिरा' इत्यर्थः // 400 // 10 स्तम्बे तु गुच्छो धान्यादेः __ स्तभ्नाति स्तम्बः, “तुम्ब-स्तम्ब-" [ हैमोणादिसू० 320 ] इति बान्तो निपात्यते, तत्र / धान्यादेर्यः स्तम्बः स नालं गुध्यति अनेन गुच्छः, "गुलञ्छपिलिपिञ्चैधिच्छादयः" [ हैमोणादिसू० 126 ] इति छप्रत्यये निपात्यते / उच्यते इति शेषः / ____15 एतस्य लोके 'गुंछउ' इति प्रसिद्धिः / नाले काण्डः "णल गन्धे" नलति नालम् , अर्थाद् गुच्छस्य, त्रिलिङ्गः, ज्वलादित्वाद् णः, तत्र / कणति-भज्यमानः शब्दायते काण्डः, पुं-क्लीबलिङ्गः, “कण्यणि-" [ हैमोणादिसू० 169 ] इति णिद् डः / एतस्य लोके 'नाल' इति प्रसिद्धिः, 'धानना 30 कणसडा' इत्यर्थः / अफले विह। स्यात् पलाल: [ 'अफले' फलरहिते 'तु' पुनः 'इह' नाले ] “पल गतौ” पल्यते पलालः, "ऋ-कृ-मृ-" [ हैमोणादिसू०४७५ ] इत्यालः, पुं-क्लीबलिङ्गः। पलोऽपि / एतस्य लोके 25 'पराल' इति प्रसिद्धिः / धान्यत्वचि तुषः 1 अभिधानचिन्तामणिस्वोपज्ञवृत्तौ 'कनिशमपि' इति पाठः //