________________ 218 सटीके निघण्टुशेषे [प्रलो० 398... - एतस्य लोके 'सरसव' इति प्रसिद्धिः / अथ सिद्धार्थः श्वेतसर्षपः // 398 // सिद्धप्रयोजनो रक्षोन्नत्वात् सिद्धार्थः। श्वेतश्चासौ सर्षपश्च श्वेतसर्षपः॥३९८॥ राजिकायां तीक्ष्णगन्धा क्षुताभिजननः क्षवः / असुरी कृष्णिका कृष्णसर्षपो राजसर्षपः // 399 // राजते राजिका, णके आप, तस्याम् / तीक्ष्णो गन्धोऽस्याः तीक्ष्णगन्धा / क्षुतमभिजनयति क्षुताभिजननः / क्षौत्यनेन क्षवः। अस्यते-क्षिप्यते शाकादिना [ ? शाकादौ ] असुरी, “वाश्यसि-" [ हैमोणादिसू० 423 ] इत्युरः, असुरस्त्रीव वा / कृष्णैव कृष्णिका; वर्णेन कर्षति कृष्णा, “घृ-वी-ह्वा-" [ हैमोणादिसू० 183 ] 10 इति किण्णः, स्वार्थिके के कृष्णिका इति वा / कृष्णश्चासौ सर्षपश्च कृष्णसर्षपः / सर्षपाणां राजा राजसर्षपः, राजदन्तादित्वात् पूर्वनिपातः / आह च राजक्षवक इत्यन्यो राजिका कृष्णसर्षपः / क्षुताभिजननश्चैव स चोक्तो राजसर्षपः // [ धन्व० वर्ग 4 श्लो० 43 ] इति / / एतस्या लोके 'राई' इति प्रसिद्धिः / “असुरी भिन्ना" इति [ ? अन्ये ] __ मन्यन्ते / यदाह असुरी राजिका राजी कृष्णिका रक्तसर्षपः / तीक्ष्णगन्धा चातितीक्ष्णा क्षुरकः क्षुवकः क्षवः // . [धन्व० वर्ग 4 श्लो० 60 ] इति / 30 .. एतस्याश्च लोके 'असुरी' इति प्रसिद्धिः // 399 // ... 'मोषादयः शमीधान्यं माष आदिर्येषां मुद्गादीनां ते माषादयः / शमी-शिम्बा तत्प्रधानं धान्यं शमीधान्यम्। शूकधान्यं यवादयः। 1 माषादि तु शमी नि० //